मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२०, ऋक् १२

संहिता

अध॒ स्वप्न॑स्य॒ निर्वि॒देऽभु॑ञ्जतश्च रे॒वतः॑ ।
उ॒भा ता बस्रि॑ नश्यतः ॥

पदपाठः

अध॑ । स्वप्न॑स्य । निः । वि॒दे॒ । अभु॑ञ्जतः । च॒ । रे॒वतः॑ ।
उ॒भा । ता । बस्रि॑ । न॒श्य॒तः॒ ॥

सायणभाष्यम्

अधेदानीं प्रभातसमये स्वप्नस्य स्वप्नं प्रति निर्विदे । निर्विण्णोऽस्मि । तथा भुंजतः परानरक्षतो धनवतश्च पुरुषस्य एवंभूतं पुरुषं प्रत्यपि निर्विण्णोऽस्मि । यतस्तावुभौ बस्रि क्षिप्रं नश्यतः नाशं प्राप्नुतः । स्वप्नदृष्टः पदार्थः प्रातर्नोपलभ्यते कदर्यसेव धनमभुक्तमदत्तं सत् क्षिप्रमेप नश्यति । तदुभयविषयो निर्वेदो मां बाधत इत्यर्थः । अत्र स्वप्नमात्रस्यासत्त्वप्रतिपादनेन दुःस्वप्नस्याप्य सद्भावः प्रतिपादितः । अत एषा दुःस्वप्ननाशनीति युज्यते ॥ स्वप्नस्य । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यथे षष्ठी । विदे । विद्लृलाभे । आगमानुशासनस्यानित्यत्वान्नुमभावः । रेवतः । रयिशब्दान्मतुप् । रयेर्मतौ बहुलमिति संप्रसारणम् । छंदसीर इति मतुपो वत्वम् । देशब्दाच्च मतुप उदात्तत्वमिति तस्योदात्तत्वम् । उभा ता उभयत्र सुपां सुपां सुलुगित्याकारः ॥ १२ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३