मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२१, ऋक् ४

संहिता

अ॒स्य मदे॑ स्व॒र्यं॑ दा ऋ॒तायापी॑वृतमु॒स्रिया॑णा॒मनी॑कम् ।
यद्ध॑ प्र॒सर्गे॑ त्रिक॒कुम्नि॒वर्त॒दप॒ द्रुहो॒ मानु॑षस्य॒ दुरो॑ वः ॥

पदपाठः

अ॒स्य । मदे॑ । स्व॒र्य॑म् । दाः॒ । ऋ॒ताय॑ । अपि॑ऽवृतम् । उ॒स्रिया॑णाम् । अनी॑कम् ।
यत् । ह॒ । प्र॒ऽसर्गे॑ । त्रि॒ऽक॒कुप् । नि॒ऽवर्त॑त् । अप॑ । द्रुहः॑ । मानु॑षस्य । दुरः॑ । व॒रिति॑ वः ॥

सायणभाष्यम्

हे इंद्र अस्य सोमस्य पानेन मदे हर्षे सत्यृताय । यज्ञार्थं स्वर्यं स्तुत्यमपीवृतं पणिभिर्गुहासु निगूढमुस्रियाणां गवामनीकं संघं दाः । अंगिरोभ्यो दत्तवानसि । उत्तरार्धः परोक्षकृतः । यद्ध यदा खलु प्रसग्रे युद्धे त्रिककुप् त्रिषु लोकेषूच्छ्रित इंद्रो निवर्तत् नितरां वर्तेत तदानीं स इंद्रो द्रूहो द्रोग्धुर्मानुषस्य मनोः संबंधिनोऽसुरस्य पणेः संबंधीनि दुरो द्वाराणि गवामनिर्गगमनाय पिहितान्यप वः । अपवृणोति । उद्घाटयति ॥ सूर्यं स्वृ शब्दोपतापयोः । ऋहलोर्ण्यत् । संज्ञापूर्वकस्य विधेरनित्यत्वाद्वृद्ध्यभावः । अपीवृतम् । अपिपूर्वाद्वृणोतेः कर्मणि निष्ठा । निपातस्य चेति पूर्वपदस्य दीर्घः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । प्रसर्गे । प्रकर्षेण सृज्यंते विमुच्यंतेऽस्मिन्निषव इति प्रसर्गः । अधिकरणे घञ् । कृदुत्तरपदप्रकृतिस्वरत्वम् । छांदसस्थाथादिस्वराभावः । निवर्तत् । वृतु वर्तने । लेट्यडागमः । व्यत्ययेन परस्मैपदम् । वः वृञ् वरणे । छांदसे लुङि मंत्रे घसेति च्लेर्लुक् । गुणे हल्ङ्यादिलोपः ॥ ४ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४