मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२१, ऋक् ६

संहिता

अध॒ प्र ज॑ज्ञे त॒रणि॑र्ममत्तु॒ प्र रो॑च्य॒स्या उ॒षसो॒ न सूरः॑ ।
इन्दु॒र्येभि॒राष्ट॒ स्वेदु॑हव्यैः स्रु॒वेण॑ सि॒ञ्चञ्ज॒रणा॒भि धाम॑ ॥

पदपाठः

अध॑ । प्र । ज॒ज्ञे॒ । त॒रणिः॑ । म॒म॒त्तु॒ । प्र । रो॒चि॒ । अ॒स्याः । उ॒षसः॑ । न । सूरः॑ ।
इन्दुः॑ । येभिः॑ । आष्ट॑ । स्वऽइदु॑हव्यैः । स्रु॒वेण॑ । सि॒ञ्चन् । ज॒रणा॑ । अ॒भि । धाम॑ ॥

सायणभाष्यम्

अधेदानीमयमिंद्रः स्तुतिभिः प्रीयमाणः सन् प्र जज्ञे । प्रकर्षेण प्रादुर्बभूव । स तरणिः शत्रूणां तारकोऽस्मान्ममत्तु । मादयतु । स च प्र रोचि प्रकृष्टं रोचते । तत्र दृष्टांतः । अस्या अस्माभिर्दृश्यमानाया उषसः समीपे वर्तमानः सूरो न सूर्य इव । जरणा जरणीयः स्तोतव्य इंदुः सोमो धामाहवनीयलक्षणं स्थानमभिलक्ष्य स्रुवेण सिंचन् सिच्यमानः सन् स्वेदुहव्यैः स्वभूतसमृद्धहविष्कैर्येभिर्यैरस्माभिराष्ट आशित आसीत् । तानस्मान्मादयत्वित्यर्थः । जज्ञे । जनी प्रादुर्भापे । लिट गमहनेत्युपधालोपः । ममत्तु । मदी हर्षे । बहुलं छंदसीति विकरणस्य श्लुः । रोचि । रुच दीप्तौ । छांदसो वर्तमानो लुङ् । व्यत्ययेन च्लेश्चिणादेशः । अष्ट । अश भोजने । कर्मणि लङि बहुलं छंदसीति विकरणस्य लुक् । व्रश्चादिषत्वे ष्टुत्वम् । आडागमः । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । स्वेदुहव्यैः । इदि परमैश्वर्ये । औणादिक उप्रत्ययः । अनित्यमागमशासनमिति नुमभावः । इदूनि प्रभूतानि च तानि हव्यानि स्वभूतानि च हव्यानि येषाम् । यद्वा । ञिइंधी दीप्तौ । स्वायत्तानींदूनीद्धानि हव्यानि येषाम् । अथवा । स्वभूतमिदं पुरोवर्ति हव्यं हविर्येषां ते तथोक्ताः । पृषोदरादित्वादभिमतरूपसिद्धिः । सिंचन् । षिचिर् क्षरणे । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । शे मुचादीनामिति नुम् । जरणा । जरतिः स्तुतिकर्मा । अस्मात्कर्मणि ल्युट् । सुपां सुलुगिति विभक्तेराकारः । व्यत्ययेन लित्स्वराभावः ॥ ६ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५