मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२१, ऋक् ८

संहिता

अ॒ष्टा म॒हो दि॒व आदो॒ हरी॑ इ॒ह द्यु॑म्ना॒साह॑म॒भि यो॑धा॒न उत्स॑म् ।
हरिं॒ यत्ते॑ म॒न्दिनं॑ दु॒क्षन्वृ॒धे गोर॑भस॒मद्रि॑भिर्वा॒ताप्य॑म् ॥

पदपाठः

अ॒ष्टा । म॒हः । दि॒वः । आदः॑ । हरी॒ इति॑ । इ॒ह । द्यु॒म्न॒ऽसह॑म् । अ॒भि । यो॒धा॒नः । उत्स॑म् ।
हरि॑म् । यत् । ते॒ । म॒न्दिन॑म् । धु॒क्षन् । वृ॒धे । गोऽर॑भसम् । अद्रि॑ऽभिः । वा॒ताप्य॑म् ॥

सायणभाष्यम्

हे इंद्र महो महतो दिवो मदकरस्य सोमस्याष्टा भोक्तारौ पातारौ हरी स्वकीयावश्चाविहास्मिन्कर्मण्यादः । पीतशेषं सोमं पायय । तथा द्युम्नासाहं द्युम्न स्यास्मदीयस्य धनस्याभिभवितारमुत्समुत्स्रा वयितारं शत्रुं योधानो योधनशीलस्त्वमभि भव । यद्यदा ते तव वृधे वर्धनाय हरिं मनोहरं मंदिनं मदकर गोरभसम् । अत्र गोशब्दः पयसि वर्तते पयो बलम् । तद्वद्वेगवंतम् । वीर्यवंतमित्यर्थः । वाताप्यं वातेन प्राप्तव्यम् । वाततुल्येन शीघ्रकारिका त्वया पातव्यमित्यर्थः । एवंविधं सोममद्रिभिर्ग्रावभिर्धुक्षन् दुहंति ऋत्विजोऽभिषुण्वंति । तदानीमष्टेति पूर्वत्र संबंधः ॥ अष्टा । अश भोजने तृच् । आगमानुशासनस्यानित्यत्वादिडभावः । धुक्षन् । पदकालीनो भष्भावश्छांदसः ॥ ८ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५