मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२१, ऋक् ११

संहिता

अनु॑ त्वा म॒ही पाज॑सी अच॒क्रे द्यावा॒क्षामा॑ मदतामिन्द्र॒ कर्म॑न् ।
त्वं वृ॒त्रमा॒शया॑नं सि॒रासु॑ म॒हो वज्रे॑ण सिष्वपो व॒राहु॑म् ॥

पदपाठः

अनु॑ । त्वा॒ । म॒ही इति॑ । पाज॑सी॒ इति॑ । अ॒च॒क्रे इति॑ । द्यावा॒क्षामा॑ । म॒द॒ता॒म् । इ॒न्द्र॒ । कर्म॑न् ।
त्वम् । वृ॒त्रम् । आ॒ऽशया॑नम् । सि॒रासु॑ । म॒हः । वज्रे॑ण । सि॒स्व॒पः॒ । व॒राहु॑म् ॥

सायणभाष्यम्

हे इंद्र मही मह्यौ महत्यौ पाजसी बलवत्यावच्रे अचंक्रमाणे सर्वत्रव्याप्य वर्तमाने द्यावाक्षामा द्यावापृथिव्यौ कर्मन् वृत्रवधादिलक्षणे कर्मणि प्रवृत्तं त्वामनुमदताम् । हृष्टमकुरुताम् । अन्वमन्येतां वा । तथा च तैत्तिरीयकम् । स इभ्यामेव प्रसूत इंद्रो वृत्रमहन्निति । तदनंतरं त्वमाशयानमा समंताद्व्याप्य वर्तमानं वराहुं वराहारं वृत्रमसुरं सिरासु सरणशीलास्वप्सु महो महता वज्रेण सिष्वपः । अस्वापयः । वज्रेण हत्वा पातितवानित्यर्थः ॥ मही सुपां सुलुगिति विभक्तेः पूर्वसवर्णदीर्घः । पाजसी । पाजःशब्दो बलवाचको लक्षणयात्र तद्वति वर्तते । इयाडियाजीकाराणामुपसंख्यानमिति विभक्तेरीकारा देशः । द्यावाक्षामा । द्यौश्च क्षामा च । दिवो द्यावेति द्यावादेशः । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वम् । सुपां सुलुगिति विभक्तेर्लुक् । मदताम् । मदी हर्षे । व्यत्ययेन शप् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । महः महतः । करणे शेषत्वेन विवक्षिते षष्ठी । अच्छब्दलोपश्छांदसः । सिष्वपः । ञॆष्वप् शये । अस्माण्ण्यंताल्लुङि चङि संज्ञापूर्वकस्य विधेरनित्यत्वात् स्वापेश्चङु (पा ६-१-१८) इति संप्रसारणं न क्रियते ॥ ११ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६