मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२२, ऋक् ५

संहिता

आ वो॑ रुव॒ण्युमौ॑शि॒जो हु॒वध्यै॒ घोषे॑व॒ शंस॒मर्जु॑नस्य॒ नंशे॑ ।
प्र वः॑ पू॒ष्णे दा॒वन॒ आँ अच्छा॑ वोचेय व॒सुता॑तिम॒ग्नेः ॥

पदपाठः

आ । वः॒ । रु॒व॒ण्युम् । औ॒शि॒जः । हु॒वध्यै॑ । घोषा॑ऽइव । शंस॑म् । अर्जु॑नस्य । नंशे॑ ।
प्र । वः॒ । पू॒ष्णे । दा॒वने॑ । आ । अच्छ॑ । वो॒चे॒य॒ । व॒सुऽता॑तिम् । अ॒ग्नेः ॥

सायणभाष्यम्

हेदेवाः औशिजःकक्षीवानहंवोयुष्माकंसंबन्धिनंरुवण्युं रवणीयंशब्दनीयं शंसंस्तोत्रंआहुवध्यै युष्म- दाह्वानाय अच्छावाचेय आभिमुख्येनब्रवीमि यद्वा अत्राप्यश्विनावेवोच्येते तस्मिन्पक्षेबहुवचनंपूजा- र्थंहेअश्विनौ वोयुष्मान्घोषेव एतन्नामिकाब्रह्मवादिनीव सायथा अर्जुनस्यश्वेतवर्णस्य स्वशरीरगत- त्वग्रोगस्यनंशेनाशनाय यथाश्विनोःशंसमकार्षीत् तद्वदहमपीत्यर्थः हेदेवाः युष्मत्संबन्धिने दावते आ आभीमुख्येनफलस्यदात्रेपूष्णे पोषकाय एतन्नामकाय देवायापि आकारस्याङोनुनासिकश्छन्दसीति- प्रकृतिभावः अच्छ आभिमुख्यगमनेनवोचेयस्तौमि वचपरिभाषणे लिङ्याशिष्यङ् वचउमित्युम् कि- ञ्च अग्नेर्वसुतातिं तत्संबन्धिधनमपिवोचेय स्तौमि तमेवाग्निम् ॥ ५ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः