मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२२, ऋक् ८

संहिता

अ॒स्य स्तु॑षे॒ महि॑मघस्य॒ राध॒ः सचा॑ सनेम॒ नहु॑षः सु॒वीरा॑ः ।
जनो॒ यः प॒ज्रेभ्यो॑ वा॒जिनी॑वा॒नश्वा॑वतो र॒थिनो॒ मह्यं॑ सू॒रिः ॥

पदपाठः

अ॒स्य । स्तु॒षे॒ । महि॑ऽमघस्य । राधः॑ । सचा॑ । स॒ने॒म॒ । नहु॑षः । सु॒ऽवीराः॑ ।
जनः॑ । यः । प॒ज्रेभ्यः॑ । वा॒जिनी॑ऽवान् । अश्व॑ऽवतः । र॒थिनः॑ । मह्य॑म् । सू॒रिः ॥

सायणभाष्यम्

महिमघस्य महिमहत्पूज्यंमघोधनंअन्नंवायस्यदेवसंघस्यसतथोक्तः तादृशस्यास्यराधोधनंस्तुषे- स्तुवे व्यत्ययेनमध्यमः धनलाभायप्रभूतधनंदेवसंघंस्तौमीत्यर्थः किंच नहुषः मनुष्यनामैतत् परस्पर- स्नेहबन्धोपेताः मनुष्यावयंकक्षीवन्तः सुवीराः शोभनपुत्राद्युपेताः सन्तः सचासह परस्परैकमत्येन सनेम त्वद्दत्तंधनंसंभजेमलभेमहि देवसंघोविशेष्यते योजनोदेवजनः यश्च देवसंघः पज्रेभ्यः अङ्गिरो- गोत्रोत्पन्नेभ्यः कक्षीवद्भ्यः पज्रावाअङ्गिरसइतिश्रुतेः । तेभ्योवाजिनीवान् वाजोऽन्नंतद्वतीक्रियावा- जिनीतयातद्वान् भवतियद्वैकोमत्वर्थीयप्रत्ययश्छान्दसः अस्मभ्यंप्रदेयेनदत्तेनवान्नेनतद्वान्भवतीत्यर्थः यश्चदेवसंघोश्वावतः बहुभिस्तद्दत्तैरश्वैस्तद्वतोरथिनोरथवतोमह्यंमेसूरिःप्रेरकोभवति अश्वानांरथानां- प्रेरयितारं देवसंघंस्तुषेइत्यर्थः ॥ सुवीराः वीरवीयौंचेत्युत्तरपदाद्युदात्तत्वम् । अश्वावतःअश्वशब्दस्य- मन्त्रेसोमाश्वेत्यादिनामत्तुपिदीर्घत्वम् ॥ ८ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः