मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२३, ऋक् ३

संहिता

यद॒द्य भा॒गं वि॒भजा॑सि॒ नृभ्य॒ उषो॑ देवि मर्त्य॒त्रा सु॑जाते ।
दे॒वो नो॒ अत्र॑ सवि॒ता दमू॑ना॒ अना॑गसो वोचति॒ सूर्या॑य ॥

पदपाठः

यत् । अ॒द्य । भा॒गम् । वि॒ऽभजा॑सि । नृऽभ्यः॑ । उषः॑ । दे॒वि॒ । म॒र्त्य॒ऽत्रा । सु॒ऽजा॒ते॒ ।
दे॒वः । नः॒ । अत्र॑ । स॒वि॒ता । दमू॑नाः । अना॑गसः । वो॒च॒ति॒ । सूर्या॑य ॥

सायणभाष्यम्

सुजाते शोभनजनने देविदेवनशीले हेउषःउषःकालाभिमानिदेवते मर्त्यत्रा मनुष्याणां पालयित्रि त्वंअद्यास्मिन्काले नृभ्योमनुष्येभ्योयत् यंभागंभजनीयं स्वकीयप्रकाशस्यांशं विभजासि विभज्य ददासि यद्वा मर्त्यत्रा मर्त्येषुमध्ये नृभ्योनेतृभ्योमनुष्येभ्योयजमानेभ्योदेवानांभागंविभज्यददासि उषसिप्रवृत्तायांहविषोदीयमानत्वादुषसोदातृत्वमुपचर्यते अत्रास्मिन्भागविषयेदमूनाः यजमाने- भ्योऽभिमतफलदानमनाः दमूनादममनावादानमनावादान्तमनावेतिनिरुक्तवचनम् । तादृशः स- विताप्रेरकोदेवःनोऽस्माननागसोवोचति अपापान् यागयोग्यान् ब्रवीतु अनुगृह्णात्वित्यर्थःकिमर्थं- सूर्यायअस्मद्यागदेशंप्रतिसूर्यस्यागमनार्थम् ॥ ३ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः