मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२३, ऋक् ७

संहिता

अपा॒न्यदेत्य॒भ्य१॒॑न्यदे॑ति॒ विषु॑रूपे॒ अह॑नी॒ सं च॑रेते ।
प॒रि॒क्षितो॒स्तमो॑ अ॒न्या गुहा॑क॒रद्यौ॑दु॒षाः शोशु॑चता॒ रथे॑न ॥

पदपाठः

अप॑ । अ॒न्यत् । एति॑ । अ॒भि । अ॒न्यत् । ए॒ति॒ । विषु॑रूपे॒ इति॒ विषु॑ऽरूपे । अह॑नी॒ इति॑ । सम् । च॒रे॒ते॒ इति॑ ।
प॒रि॒ऽक्षितोः॑ । तमः॑ । अ॒न्या । गुहा॑ । अ॒कः॒ । अद्यौ॑त् । उ॒षाः । शोशु॑चता । रथे॑न ॥

सायणभाष्यम्

इदानीमहोरात्रस्तुतिद्वारा उषाःस्तूयते विषुरूपे वक्ष्यमाणप्रकारेणनानारूपे अहनी अहश्चरात्रि- श्चोभेसंचरेते समित्येकीभावे सहैवाव्यवधानेनचरतः अत्राह्नः साहचर्यात्तत्प्रतियोगित्वाच्चरात्रिर- प्यहरित्युच्यते उत्तरत्रमन्त्रान्तरे अयमेवार्थःस्पष्टआम्नातः—अहश्चकृष्णमहरर्जुनंचविवर्तेतेरजसीवे- द्याभिरिति । तयोर्मध्येअन्यद्रात्रिरूपमहरपैति अपगच्छति प्रतिलोमगच्छतिवा अपेत्येतस्यप्रातिलो- म्यमितियास्कः । अन्यच्चदिवसाख्यमहः अभ्येति आभिमुख्येनगच्छति अभीत्याभिमुख्यमितियास्कः । रात्र्यांप्रतिनिवृत्तायां अहरभिमुखमागच्छतीत्यर्थः विषुरूपेसंचरेते इतियदुक्तं तदेवस्पष्टीक्रियते— परिक्षितोः पर्यायेणनिवसतोः परिक्षपयतोर्वाप्राणिनां अहः स्वतीतेषु आयुषः क्षयात्परिक्षपणंप्रसि- द्धम् तयोर्मध्येअन्यारात्रिस्तमस्तमोरूपा गुहा पदार्थानां गूहनंअकः करोति अन्याअहरेकदेशभूतावो- षाः शोशुचताभृशंदीप्तेनरथेनअद्यौत् द्योततेप्रकाशते प्रकाशयतिवासर्वंरात्रिस्तमोरूपत्वात्सर्वंजगदा- वृणोति उषास्तु सर्वान्भावान्प्रकाशयतीत्युषसः स्तुतिः ॥ ७ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः