मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२३, ऋक् ११

संहिता

सु॒सं॒का॒शा मा॒तृमृ॑ष्टेव॒ योषा॒विस्त॒न्वं॑ कृणुषे दृ॒शे कम् ।
भ॒द्रा त्वमु॑षो वित॒रं व्यु॑च्छ॒ न तत्ते॑ अ॒न्या उ॒षसो॑ नशन्त ॥

पदपाठः

सु॒ऽस॒ङ्का॒शा । मा॒तृमृ॑ष्टाऽइव । योषा॑ । आ॒विः । त॒न्व॑म् । कृ॒णु॒षे॒ । दृ॒शे । कम् ।
भ॒द्रा । त्वम् । उ॒षः॒ । वि॒ऽत॒रम् । वि । उ॒च्छ॒ । न । तत् । ते॒ । अ॒न्याः । उ॒षसः॑ । न॒श॒न्त॒ ॥

सायणभाष्यम्

हेउषोदेवि मातृमृष्टामातृभिर्जननीभिः शुद्धीकृतायोषेव सुसंकाशाअत्यर्थं प्रकाशमानातत्वं तन्वं- स्वकीयांतनुं दृशेसर्वेषांदर्शनायआविष्कृणुषे प्रकटयसि यथालोकेमात्रादिना स्वलंकृता शोभनासती स्वकीयंलावण्योपेतं सर्वशरीरंदर्शनायाविष्करोतितद्वत्त्वमपीत्यर्थः अत्रकमितिपादपूरणः अत्रविशे- षस्याभावात् शिशिरंजीवनायकमितिवत् तथाचयास्काचार्यः—मिताक्षरेष्वनर्थकाःकमीमिद्वितीति । यद्वा कमितिसुखवचनः सुखंयथाभवतितथा आविष्कृणुषेइत्यर्थः हेउषः यतएवंकरोषि अतोभद्राक- ल्याणशीला स्तुत्यावितरंव्युच्छ आवरकमन्धकारंविप्रकृष्टंयथाभवतितथाविवासय अत्रयद्यपिविशे- षोनश्रुतः तथापिप्रकाशनिवर्त्यत्वात् परिहरणीयत्वाच्च व्युदसनीयंतमएवेतिगम्यते किंच तेतव तत्- व्युदसनं अन्याउषसः अतीताआगामिन्यश्च ननशंत नव्याप्नुवन्ति तथाव्युच्छेतिभावः नशिर्व्याप्तिकर्मा इन्वति नशतिइतिव्याप्तिकर्मसुपाठात् ॥ ११ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः