मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२३, ऋक् १२

संहिता

अश्वा॑वती॒र्गोम॑तीर्वि॒श्ववा॑रा॒ यत॑माना र॒श्मिभि॒ः सूर्य॑स्य ।
परा॑ च॒ यन्ति॒ पुन॒रा च॑ यन्ति भ॒द्रा नाम॒ वह॑माना उ॒षासः॑ ॥

पदपाठः

अश्व॑ऽवतीः । गोऽम॑तीः । वि॒श्वऽवा॑राः । यत॑मानाः । र॒श्मिऽभिः॑ । सूर्य॑स्य ।
परा॑ । च॒ । यन्ति॑ । पुनः॑ । आ । च॒ । य॒न्ति॒ । भ॒द्रा । नाम॑ । वह॑मानाः । उ॒षसः॑ ॥

सायणभाष्यम्

अश्वावतीः अश्ववत्यः बहुभिरश्वैस्तद्वत्यः तथागोमतीर्बहुभिर्गोभिस्तद्वत्यः विश्ववाराः विश्वेवा- रावरणीयाः कालायासां तास्तथोक्ताः सार्वकालीनाइत्यर्थः यद्वा विश्वेवरितारोयासुताः विश्ववाराः भवन्ति विश्वैर्वरणीयाइत्यर्थः सूर्यस्यरश्मिभिर्यतमानाः सूर्यरश्मिभिः साकंतमोनिवारणायप्रयत्नंकु- र्वाणाः यद्यपिसूर्यरश्मयएवजगत्प्रकाशनायप्रभवन्ति तथापिसूर्योदयात्पूर्वं तमोनिवारणस्यापेक्षित- त्वात्तासामपिप्रयत्नमविरुद्धम् रश्मिदेवताअपि प्रकाशिकाइत्यर्थः किंच भद्रा भद्रंकल्याणंस्तुत्यंवाना- मनमनं सर्वजनानुकूल्यंवहमानाः धारयमाणाः उषासः उषोदेवताः पराचयन्ति परायन्तिच तथा पुनराचयन्तिपुनरायन्तिच परस्परापेक्षयोभयत्रचशब्दः याएवातीतेषु दिनेषुगतास्ताएवपुनः पुनर्दि- नान्तरेष्वप्यायन्तिजगन्निर्वाहाय प्रतिदिनंगतागतंकुर्वन्तीत्यर्थः ॥ १२ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः