मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२४, ऋक् ६

संहिता

ए॒वेदे॒षा पु॑रु॒तमा॑ दृ॒शे कं नाजा॑मिं॒ न परि॑ वृणक्ति जा॒मिम् ।
अ॒रे॒पसा॑ त॒न्वा॒३॒॑ शाश॑दाना॒ नार्भा॒दीष॑ते॒ न म॒हो वि॑भा॒ती ॥

पदपाठः

ए॒व । इत् । ए॒षा । पु॒रु॒ऽतमा॑ । दृ॒शे । कम् । न । अजा॑मिम् । न । परि॑ । वृ॒ण॒क्ति॒ । जा॒मिम् ।
अ॒रे॒पसा॑ । त॒न्वा॑ । शाश॑दाना । न । अर्भा॑त् । ईष॑ते । न । म॒हः । वि॒ऽभा॒ती ॥

सायणभाष्यम्

एषोषा एवेत् इच्छब्दएवकारार्थः एवमेवइदानीं भासमानप्रकारेणैवपुरुतमाविपुलतमा अत्यन्त- विस्तृतासती अजामिं विजातीयंमनुष्यादिजातिंनपरिवृणक्ति परितः सर्वतोनवर्जयति तथा जामिं- सजातीयंदेवजातिंनपरिवृणक्ति नपरिवर्जयति मनुष्यादिकंदेवादिकंचतदुपलक्षितं लोकद्वयंवाका- र्त्स्न्येनप्रकाशयतीत्यर्थः किमर्थमितितदुच्यते—दृशेकं सुखेनसर्वेषांदर्शनायसुखंयथा भवतितथासर्वा- न्दर्शयितुंवा किंच अरेपसा अपापया निर्मलयातन्वाशरीरेण शाशदाना शाशाद्यमाना शाशदानः शाशाद्यमानइतियास्कः । स्पष्टतांगच्छन्तीत्यर्थः विभातीविशेषेणप्रकाशयन्ती साअर्भादल्पात् पुत्रि- कादेःसकाशान्नेषतेनग यति तमपिप्रकाशयति तथा महोमहतोमेर्वादेः सकाशान्नेषते नगच्छति तम- पिप्रकाशयति पूर्वंलोकद्वयंप्रकाशयति इत्युक्तं इदानीमस्मिंल्लोके परमाण्वादिपर्वतपर्यन्तंकृत्स्नंप्रका- शयतीत्यर्थः ॥ ६ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः