मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२४, ऋक् ११

संहिता

अवे॒यम॑श्वैद्युव॒तिः पु॒रस्ता॑द्यु॒ङ्क्ते गवा॑मरु॒णाना॒मनी॑कम् ।
वि नू॒नमु॑च्छा॒दस॑ति॒ प्र के॒तुर्गृ॒हंगृ॑ह॒मुप॑ तिष्ठाते अ॒ग्निः ॥

पदपाठः

अव॑ । इ॒यम् । अ॒श्वै॒त् । यु॒व॒तिः । पु॒रस्ता॑त् । यु॒ङ्क्ते । गवा॑म् । अ॒रु॒णाना॑म् । अनी॑कम् ।
वि । नू॒नम् । उ॒च्छा॒त् । अस॑ति । प्र । के॒तुः । गृ॒हम्ऽगृ॑हम् । उप॑ । ति॒ष्ठा॒ते॒ । अ॒ग्निः ॥

सायणभाष्यम्

इयमुषाः युवतिः यौवनोपेता योषित्स्थानीया यद्वा सर्वेषुभावेषुमिश्रयन्तीपुरस्तात्पूर्वस्यां दि- शिअवाश्वैत् अत्यर्थमागच्छति वर्धतेवा अत्रावशब्दोविनिग्रहार्थीयः न्यवेतिविनिग्रहार्थीयाविति- यास्केनोक्तत्वात् । तत्कथमवगम्यतइतितत्राह—इयंअरुणानां अरुणवर्णानांगवांप्रसिद्धानामेतन्ना- मकानामश्वानांवा अनीकंसमूहं युंक्तेरथेयोजयति अरुण्योगावउषसांश्यावाः सवितुरिति यथालोके- वाहनसन्नाहंदृष्ट्वा प्रयाणमनुमीयते तथात्राप्यरुणरश्मीनामश्वानांदर्शनादुषाआगच्छतीत्यध्यवसी- यते यद्वा अरुणानांरश्मीनां समूहंयुक्ते तथानूनं निश्चयं एषाव्युच्छात् तमोविवर्जयिष्यति यतइयंगा- युनक्ति अतएवकारणात् यथालोकेस्वसन्नाहंदृष्ट्वोदयोनुमीयते तथात्रापीत्यर्थः तादृशीसाअसति असत्प्रायेनीरूपेअन्तरिक्षेअतिरोधायकत्वादशोभनेतमसिवाकेतुः केतुस्थानीयाज्ञापयित्रीप्रकर्षेणवि- विधंभासतइतिशेषः उपसर्गवशाद्योग्यक्रियाध्याहारः यद्वा असति तमोरूपेन्धकारेप्रकेतुः प्रकर्षेणज्ञा- पयित्रीसतीनूनंव्युच्छादितिपूर्वत्रान्वयः तस्मिन्कालेअग्निः आहवनीयादिरूपोगृहंगृहं सर्वयजमानगृहं अग्निहोत्राद्यर्थमुपतिष्ठाते उपतिष्ठते दीप्यतइत्यर्थः ॥ ११ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः