मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२५, ऋक् ३

संहिता

आय॑म॒द्य सु॒कृतं॑ प्रा॒तरि॒च्छन्नि॒ष्टेः पु॒त्रं वसु॑मता॒ रथे॑न ।
अं॒शोः सु॒तं पा॑यय मत्स॒रस्य॑ क्ष॒यद्वी॑रं वर्धय सू॒नृता॑भिः ॥

पदपाठः

आय॑म् । अ॒द्य । सु॒ऽकृत॑म् । प्रा॒तः । इ॒च्छन् । इ॒ष्टेः । पु॒त्रम् । वसु॑ऽमता । रथे॑न ।
अं॒शोः । सु॒तम् । पा॒य॒य॒ । म॒त्स॒रस्य॑ । क्ष॒यत्ऽवी॑रम् । व॒र्ध॒य॒ । सू॒नृता॑भिः ॥

सायणभाष्यम्

प्रातः पूर्वेद्युः प्रभातकालेऽयंधनंदत्तवान् तस्मिन्नेवकाले सुकृतंशोभनस्यकर्तारंत्वांइच्छन्प्राप्तुमि- च्छन् कदाद्रक्ष्यामीतिकामयमानोऽहं अद्यास्मिन्दिने इदानींआयं प्राप्तोस्मि अत्रयद्यपि केवलंप्रातरि- त्येवश्रुतं नपूर्वेद्युरिति तथापि अद्यायमित्युक्तत्वादर्थात्पूर्वेद्युः प्रातरितिगम्यते कीदृशं इष्टेः इष्टस्येष्ट- साधनस्य यागस्यवापुत्रं पुरुत्रातारं पुत्रःपुरुत्रायतइतियास्कः । कर्तारमित्यर्थः केनसाधनेनेतितदुच्य- ते—वसुमतारथेन समृद्धधनवतारथेनसाधनेन यद्वा तेनसहेतिसहार्थेतृतीया किंच तदानींतेनसमृद्धेन धनेनांशोःअंशुमतः वल्लीरूपस्यमत्सरस्य मादनसाधनस्यसोमस्य मत्सरः सोमोमन्दतेस्तृप्तिकर्मणइ- तिनिरुक्तम् । तस्यसुतं अभिषुतं रसंपायय आत्मानंपायय इष्टसाधनंसोमयागंकुर्वित्यर्थः कृत्वाच क्ष- यद्वीरं क्षियन्तोनिवसन्तोवीराः पुत्रभृत्यादयोयस्य तंतादृशंत्वदिष्टसाधनबहुधनप्रदातारंसूनृताभिः प्रियसत्यात्मिकाभिर्वाग्भिः वर्धयसमृद्धंकुरु पुत्रभृत्यादिवीरैः यथाप्रवृद्धोभवतितथाकामयस्वेत्यर्थः ॥ ३ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०