मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२५, ऋक् ७

संहिता

मा पृ॒णन्तो॒ दुरि॑त॒मेन॒ आर॒न्मा जा॑रिषुः सू॒रयः॑ सुव्र॒तासः॑ ।
अ॒न्यस्तेषां॑ परि॒धिर॑स्तु॒ कश्चि॒दपृ॑णन्तम॒भि सं य॑न्तु॒ शोका॑ः ॥

पदपाठः

मा । पृ॒णन्तः॑ । दुःऽइ॑तम् । एनः॑ । आ । अ॒र॒न् । मा । जा॒रि॒षुः॒ । सू॒रयः॑ । सु॒ऽव्र॒तासः॑ ।
अ॒न्यः । तेषा॑म् । प॒रि॒ऽधिः । अ॒स्तु॒ । कः । चि॒त् । अपृ॑णन्तम् । अ॒भि । सम् । य॒न्तु॒ । शोकाः॑ ॥

सायणभाष्यम्

अन्वयव्यतिरेकाभ्यांदानंप्रशंसितुमाह—पृणन्तोदेवादीन्हविरादिनाप्रीणयन्तः सन्तः दुरितं दुष्टं- यथाभवति तथाप्राप्तंदुःखंएनः तत्साधनंपापंचमारन् माप्राप्नुवन् नकेवलंदातारएव अपितु सूरयः दे- वानांस्तोतारोविद्वांसोमाजारिषुः जरयानजीर्णाभवेयुः तथासुव्रतासः शोभनकृच्छ्रचान्द्रायणादिनि- यमवन्तोऽपिमाजारिषुः तर्ह्येषामन्योजनःकइतिसउच्यते तेषांदातॄणांस्तोतॄणांवान्यः तेभ्योऽन्योयः कोऽपिपुरुषः परिधिः पापस्य परितोधारकोऽस्तु यद्वा अन्योऽन्यः कश्चनपापदेवः तेषांपरिधिःपरि- धिस्थानीयोव्यवधायकोऽस्तु यथाग्नेः परिधिः स्वयंरक्षःप्रभृतिभिर्बाध्यमानः स्वान्तर्हितमग्निंरक्षति तद्वत् अथवा अन्योधर्मविशेषस्तेषांपरिधिः परिधानमस्तु कवचस्थानीयोऽस्तु तर्हिकिंप्राप्नुयुरिति उ- च्यते अपृणन्तंदेवादीनप्रीणयन्तं अदातारंशोकाः चित्तपीडाः तत्साधनाः पाप्मानः अभिअभिमुखं- संयन्तुसम्यक्प्रावन्तु वयंसुखिनोभवेमेत्यर्थः अत्रयद्यपिसामान्येन दानमात्रंस्तूयते तथाप्यस्यसूक्तस्य स्वनयदानस्तुतिरूपत्वाद्दुःखानिमायंत्वित्यर्थः ॥ ७ ॥

अमन्दानितिषष्ठंसूक्तम् सप्तेत्यनुवर्तनात्सप्तर्चं आदितः पंचानांकक्षीवानृषिः षष्ठ्याभावयव्यः सप्तम्यारोमशानामब्रह्मवादिनी आदितः पंचानांभावयव्यस्यस्तुतिरूपत्वात्सएवदेवता यातेनोच्य- तइतिन्यायात् अन्त्ययोः षष्ठीसप्तम्योस्तुभावयव्यरोमशयोः संवादः षष्ठ्याभावयव्यः सप्तम्यारोम- शा यद्यपिस्वनयेनदत्ताइतिश्रूयमाणत्वात्तस्यैवस्तुत्याभाव्यं तथापिपितृपुत्रयोरभेदात् आरुद्रासइति- वत् पितृनाम्नाव्यवहर्तुंशक्यत्वात्प्रथमायामृचिभावयव्यस्येत्युक्तत्वाच्च भावयव्यं तुष्टावेत्येतदविरुद्ध- मित्युक्तंपूर्वसूक्तएव आदितः पंचत्रिष्टुभः अन्त्येअनुष्टुभौ तथाचानुक्रान्तं—अमन्दानितिकक्षीवान्दान- तृष्टः पञ्चभिर्भावयव्यंतुष्टावांत्येअनुष्टुभौ भावयव्यरोमशयोर्दंपत्योःसंवादइति उक्तोविनियोगः ।

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०