मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२६, ऋक् १

संहिता

अम॑न्दा॒न्त्स्तोमा॒न्प्र भ॑रे मनी॒षा सिन्धा॒वधि॑ क्षिय॒तो भा॒व्यस्य॑ ।
यो मे॑ स॒हस्र॒ममि॑मीत स॒वान॒तूर्तो॒ राजा॒ श्रव॑ इ॒च्छमा॑नः ॥

पदपाठः

अम॑न्दान् । सोमा॑न् । प्र । भ॒रे॒ । म॒नी॒षा । सिन्धौ॑ । अधि॑ । क्षि॒य॒तः । भा॒व्यस्य॑ ।
यः । मे॒ । स॒हस्र॑म् । अमि॑मीत । स॒वान् । अ॒तूर्तः॑ । राजा॑ । श्रवः॑ । इ॒च्छमा॑नः ॥

सायणभाष्यम्

सिन्धौ सिन्धुदेशे यद्वा लक्षणयासिन्धुतीरे समुद्रतीरे अधिक्षियतः अधिनिवसतोभाव्यस्यभावय- व्यस्य तत्पुत्रस्यस्वनयस्येत्यर्थःतस्यअमन्दान् अनल्पान् स्तोमान् स्तोत्राणितन्निष्ठबहुविधदानादीनां- कीर्तनानि मनीषा मनीषयाप्रियातिशयबुद्ध्या प्रभरे विशेषेणसंपादयामि कस्तस्यविशेषइतितत्राह- अतूर्तः केनाप्यहिंसितोयोराजामेमदर्थं सहस्रंतत्संख्याकान्सवान्सूयन्तेसोमाएष्वितिसवाः सोमयागाः तान् अमिमीत संपूर्णधनप्रदानेन निर्मितवान् किमिच्छन् श्रवः सर्वैःश्रूयमाणांकीर्तिमात्मनेइच्छमानः कामयमानः यतोयंआर्त्विज्याद्युपाधिनाविनाकीर्त्यर्थमेवबहुधनं प्रादात् अतस्तंस्तौमीत्यर्थः ॥ १ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११