मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२६, ऋक् ४

संहिता

च॒त्वा॒रिं॒शद्दश॑रथस्य॒ शोणा॑ः स॒हस्र॒स्याग्रे॒ श्रेणिं॑ नयन्ति ।
म॒द॒च्युतः॑ कृश॒नाव॑तो॒ अत्या॑न्क॒क्षीव॑न्त॒ उद॑मृक्षन्त प॒ज्राः ॥

पदपाठः

च॒त्वा॒रिं॒शत् । दश॑ऽरथस्य । शोणाः॑ । स॒हस्र॑स्य । अग्रे॑ । श्रेणि॑म् । न॒य॒न्ति॒ ।
म॒द॒ऽच्युतः॑ । कृ॒श॒नऽव॑तः । अत्या॑न् । क॒क्षीव॑न्तः । उत् । अ॒मृ॒क्ष॒न्त॒ । प॒ज्राः ॥

सायणभाष्यम्

दशरथस्य दशसंख्याकरथवतः सहस्रस्य सहस्रसंख्याकानुचरोपेतस्य कक्षीवतोगोयूथसहस्रस्य- वाग्रेपुरस्तात् शोणाः शोणवर्णोपेताः अश्वाः चत्वारिंशत् एकैकस्यरथस्यचतुष्टयेसतिदशरथानां मिलित्वाचत्वारिंशदश्वाभवन्ति तेपिश्रेणिं पङ्क्तिं आश्रित्यनयन्ति रथानभिमतदेशंप्रापयन्ति युक्ता- श्वनियुक्तान्रथान् श्रेणिं श्रेणीभावंनयन्ति प्रापयन्ति एकैकंरथंचत्वारश्चत्वारः पंक्तयाकारेणवहन्ती- त्यर्थः अथतान् कक्षीवन्तः कक्ष्याशसंबंधिनीरज्जुः कक्ष्यारज्जुरश्वस्येतियास्केनोक्तत्वात् । ताभिस्त- द्वन्तः यद्वा अंगिरसः पुत्राः सर्वेपिकक्षीवन्तः अथवा कक्षीवदनुचराः सर्वेपि छत्रिन्यायेनकक्षीवन्तः पज्राघासाद्यन्नवन्तः सन्तोमदच्युतोमदस्राविणः उद्वृत्तान् शत्रूणांमदस्यच्यावयितॄन्वा कृशनावतः सुवर्णमंयनानाभरणयुक्तान् कृशनमितिहिरण्यनाम कृशनंलोहमितितन्नामसुपाठात् सुवर्णाभरणोपे- तान् अत्यान् सन्ततगमनशीलानश्वान् उदमृक्षन्त अध्वश्रमजनितस्वेदापनयनाय उत्कृष्टं मार्जयन्ति ॥ ४ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११