मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १२६, ऋक् ६

संहिता

आग॑धिता॒ परि॑गधिता॒ या क॑शी॒केव॒ जङ्ग॑हे ।
ददा॑ति॒ मह्यं॒ यादु॑री॒ याशू॑नां भो॒ज्या॑ श॒ता ॥

पदपाठः

आऽग॑धिता । परि॑ऽगधिता । या । क॒शी॒काऽइ॑व । जङ्ग॑हे ।
ददा॑ति । मह्य॑म् । यादु॑री । याशू॑नाम् । भो॒ज्या॑ । श॒ता ॥

सायणभाष्यम्

संभोगायप्रार्थितोभावयव्यः स्वभार्यांरोमशामप्रौढेतिबुद्भ्यापरिहसन्नाह—भोज्या भोगयोग्यैषा आगधिताआसमन्ताद्गृहीता स्वीकृता तथा परिगधिता परितोग्रहीताआदरातिशयाय पुनर्वचनं गध्यंगृह्णातेरितियास्कः । यद्वा आगधिता आसमन्तान्मिश्रयन्ती आन्तरंप्रजननेन बाह्यंभुजादिभिरि- त्यर्थः गध्यतिर्मिश्रीभावकर्मेतियास्कः । पूर्वस्मिन्पक्षेपुरुषस्यप्राधान्यं उत्तरस्मिंस्तुयोषितइतिभेदः कीदृशीसा या जंगहे अत्यर्थंगृह्णातिकदापिनमुंचति अत्यागेदृष्टान्तः—कशीकेव कशीकानामसूतव- त्सानकुली सायथा पत्यासहचिरकालंक्रीडति नकदचिदपिविमुंचति तथेषाअपि किंच भोज्यैषा यादुरीय दुरित्युदकनाम रेतोलक्षणमुदकं प्रभूतंरातिददातीति यादुरी बहुरेतोयुक्तेत्यर्थः तादृशीसती याशूनां संभोगानां यशइतिप्रजनननाम तत्संबन्धीनिकर्माणि याशूनिभोगाः तेषांशताशतान्यसंख्या- तानि मह्यंददाति ॥ ६ ॥

  • अनुवाकः  १८
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११