मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३३, ऋक् २

संहिता

अ॒भि॒व्लग्या॑ चिदद्रिवः शी॒र्षा या॑तु॒मती॑नाम् ।
छि॒न्धि व॑टू॒रिणा॑ प॒दा म॒हाव॑टूरिणा प॒दा ॥

पदपाठः

अ॒भि॒ऽव्लग्य॑ । चि॒त् । अ॒द्रि॒ऽवः॒ । शी॒र्षा । या॒तु॒ऽमती॑नाम् ।
छि॒न्धि । व॒टू॒रिणा॑ । प॒दा । म॒हाऽव॑टूरिणा । प॒दा ॥

सायणभाष्यम्

अद्रिवः वैरिणांभक्षक यद्वा अद्रेर्मेघस्यादर्तरिन्द्र त्वंयातुमतीनां हिंसावतीनांसेनानां यद्वा यात- नासाधनान्यायुधानियातूनितद्वतीनां अथवा यातवोरक्षांसितद्वतीनांसेनानां कर्मणि षष्ठी शत्रूणांसे- नाः तासांशीर्षा शीर्षाणिअभिव्लग्याचित् अभितःप्राप्यैव छिन्धिचूर्णय यद्वा तासांसंबन्धीनिरथादी- निछिन्धि केनसाधनेनेतितदुच्यते—वटूरिणापदा वेष्टनशीलेनसर्वव्याप्तेनत्वदीयपादेनअतिविस्तृते- नेत्यर्थः यद्वा वटूरिणापदा वेष्टनशीलेनहस्तिनःसंबन्धिनापादेनऎरावतपादेनेत्यर्थः नकेवलेनयेनकेन- पादेनेत्याह—महावटूरिणापदा महावेष्टनवता स्वीयेनैरावतसंबन्धिनावापादेनछिन्धि चूर्णय वटवे- ष्टने खर्जिपिज्यादिभ्यऊरोलचावित्यूरच् प्रत्ययः अतइनिठनावितीनिः ॥ २ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२