मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३३, ऋक् ३

संहिता

अवा॑सां मघवञ्जहि॒ शर्धो॑ यातु॒मती॑नाम् ।
वै॒ल॒स्था॒न॒के अ॑र्म॒के म॒हावै॑लस्थे अर्म॒के ॥

पदपाठः

अव॑ । आ॒सा॒म् । म॒घ॒ऽव॒न् । ज॒हि॒ । शर्धः॑ । या॒तु॒ऽमती॑नाम् ।
वै॒ल॒ऽस्था॒न॒के । अ॒र्म॒के । म॒हाऽवै॑लस्थे । अ॒र्म॒के ॥

सायणभाष्यम्

हेइन्द्र मघवन् धनवन् आसांयातुमतीनांयातनासाधनान्यायुधानियातूनि तद्वतीनां यातुधानव- तांवासेनानां शर्धोबलंअवजहिचूर्णय तथाक्रुत्वाच अर्मके कुत्सितेशवैररणीये वैलस्थानकेकुत्सितेपू- र्वोक्तलक्षणेश्मशानेक्षपयेतिशेषः यद्वा बैलस्थानके बिलसंबन्धिनिकुत्सितेस्थाने अन्धकारावृतेअधो- लोकेस्थापयेतिशेषः ननुयत्रक्वचित्क्षुद्रे नेत्याह महाबैलस्थे सर्वैर्गन्तव्येमहाश्मशानेनागलोकेवा पुनः कीदृशे अर्मके कुत्सिते गतासुभिररणीये ॥ ६ ॥

  • अनुवाकः  १९
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२