मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४०, ऋक् २

संहिता

अ॒भि द्वि॒जन्मा॑ त्रि॒वृदन्न॑मृज्यते संवत्स॒रे वा॑वृधे ज॒ग्धमी॒ पुनः॑ ।
अ॒न्यस्या॒सा जि॒ह्वया॒ जेन्यो॒ वृषा॒ न्य१॒॑न्येन॑ व॒निनो॑ मृष्ट वार॒णः ॥

पदपाठः

अ॒भि । द्वि॒ऽजन्मा॑ । त्रि॒ऽवृत् । अन्न॑म् । ऋ॒ज्य॒ते॒ । सं॒व॒त्स॒रे । व॒वृ॒धे॒ । ज॒ग्धम् । ई॒मिति॑ । पुन॒रिति॑ ।
अ॒न्यस्य॑ । आ॒सा । जि॒ह्वया॑ । जेन्यः॑ । वृषा॑ । नि । अ॒न्येन॑ । व॒निनः॑ । मृ॒ष्ट॒ । वा॒र॒णः ॥

सायणभाष्यम्

द्विजन्मा द्वाभ्यामरणीभ्यांजायमानत्वात् यद्वा मथनेनाधनसंस्कारेणचोत्पन्नत्वात् द्विजन्मत्वं अन्येभ्योऽपिदृश्यन्तइतिमनिन् अयमग्निः त्रिवृदन्नं आज्यपुरोडाशसोमरूपेण त्रिप्रकारमन्नं अदनीयं अभिऋज्यते प्राप्नोति अभितआभिमुख्येननयति भक्षयति ऋजगतिस्थानार्जनोपार्जनेषु व्यत्ययेन- श्यन् यद्वा भृज्यते भ्रस्जपाके पक्वंकरोतिवा किंच ई इदं ईमित्यत्र सांहितिकोमलोपश्छान्दसः जग्धं भक्षितं संवत्सरेपूर्णे पुनर्ववृधे अग्निर्वर्धयति जीर्णस्यपुनर्वृध्यभावात् यजमानं हविर्वृध्याप्रतिसंवत्सरं यागसमर्थं करोतीत्यर्थः यद्वा एकवारं भक्षितं हविः पुनःसंवत्सरेपूर्णेसंवत्सरउदरस्थंवर्धतेवर्धयति- वाभक्षितारं किंचायमग्निर्वृषावर्षकःसन् अन्यस्यहविषः आसा आस्येन जिह्वयागृह्णन् जेन्यःप्रभूतो- भवतीतिशेषः यद्वा वर्षितासन् एकेनरूपेण अन्यस्ययज्ञे होत्रादेः जिह्वयातदुपलक्षितयास्रुचाजेन्यः प्रवृद्धोभवति तथाअन्येन दावाग्निरूपेणवारणः सर्वेषांवारकःसन् वनिनोवनसंबन्धिनोवृक्षान् निमृष्ट निमार्ष्टि दहतीत्यर्थः मृजेश्छान्दसेलङिव्यत्ययेनात्मनेपदम् ॥ २ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः