मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४०, ऋक् ९

संहिता

अ॒धी॒वा॒सं परि॑ मा॒तू रि॒हन्नह॑ तुवि॒ग्रेभि॒ः सत्व॑भिर्याति॒ वि ज्रयः॑ ।
वयो॒ दध॑त्प॒द्वते॒ रेरि॑ह॒त्सदानु॒ श्येनी॑ सचते वर्त॒नीरह॑ ॥

पदपाठः

अ॒धी॒वा॒सम् । परि॑ । मा॒तुः । रि॒हन् । अह॑ । तु॒वि॒ऽग्रेभिः॑ । सत्व॑ऽभिः । या॒ति॒ । वि । ज्रयः॑ ।
वयः॑ । दध॑त् । प॒त्ऽवते॑ । रेरि॑हत् । सदा॑ । अनु॑ । श्येनी॑ । स॒च॒ते॒ । व॒र्त॒निः । अह॑ ॥

सायणभाष्यम्

दावाग्निःस्तूयते अयमग्निः मातुः भूतानांनिर्मातुर्भूमेः अधीवासंउपर्याच्छादनस्थानीयँ तृणगुल्मो- षध्यादिकंपरिपरितः रिहन् लिहन् अहेतिप्रसिद्धौ यद्वा मातुर्भूमेः अधीवासंउपरिधार्यमाणंवस्त्रं परि परितः रिहन् संपादयन् तुविग्रेभिः प्रभूतंशब्दयद्भिः प्रभूतगमनैर्वासत्वभिः प्राणिभिः सहितः ज्रयः ज्रयसा जवेनवियाति विविधंगच्छति किंच पद्वते पादवते द्विपदेचतुष्पदेच वयः अन्नं तत्तदुचितं दधत् ददत् विवनेदावानलेभीत्या पलायमानान्प्राणिनोव्याघ्रादयोभक्षयन्तीतिप्रसिद्धं किंकुर्वन् सदा सर्वदा तृणादिकं रेरिहत् दहन् किंच श्येनी श्यामवर्णोवर्तनिः मार्गः वियान्तंअग्निंअनु अनुक्रमेणसच- ते सेवतेयत्रयत्राग्निर्गच्छति तत्रतत्रमार्गोऽपिकृष्णोभवति अहेतिप्रसिद्धौ ॥ ९ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः