मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४०, ऋक् १०

संहिता

अ॒स्माक॑मग्ने म॒घव॑त्सु दीदि॒ह्यध॒ श्वसी॑वान्वृष॒भो दमू॑नाः ।
अ॒वास्या॒ शिशु॑मतीरदीदे॒र्वर्मे॑व यु॒त्सु प॑रि॒जर्भु॑राणः ॥

पदपाठः

अ॒स्माक॑म् । अ॒ग्ने॒ । म॒घव॑त्ऽसु । दी॒दि॒हि॒ । अध॑ । श्वसी॑वान् । वृ॒ष॒भः । दमू॑नाः ।
अ॒व॒ऽअस्य॑ । शिशु॑ऽमतीः । अ॒दी॒देः॒ । वर्म॑ऽइव । यु॒त्ऽसु । प॒रि॒ऽजर्भु॑राणः ॥

सायणभाष्यम्

हेअग्ने अस्माकं मघवत्सु अस्मत्संबन्धिष्वन्नवत्सु यागेषु गृहेषुवा दीदिहि दीप्यस्व अध अथान- न्तरं श्वसीवान् श्वसनवान् ज्वालाभिश्चेष्टावान् अस्मत्प्राणनवान्वा वृषभोवर्षिता अभिमतानां दमू- नाः दममनाः दान्तमनावा सर्वत्रभवेतिशेषः सउक्तलक्षणस्त्वंशिशुमतीरवास्य शिशुशब्देनतदवस्था- लक्ष्यते शैशववतीर्ज्वालाअपक्षेप्य विहाय अदीदेः भशं दीप्यस्व कीदृशस्त्वं युत्सु संग्रामेषु वर्मेवकव- चमिव परिजर्भुराणः अस्मद्वेष्टॄन्पुनःपुनः परिहरन् यद्वा युत्सु संग्रामेषु वर्मेव परिजर्भुराणोभव हरते- र्यङ्लुगन्ताद्भ्यत्ययेनशानच् अभ्यस्तानामादिरित्याद्युदात्तत्वं उक्तगुणकोभवान् मघवत्सु यज्ञेषु दीप्यस्व ॥ १० ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः