मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४०, ऋक् १३

संहिता

अ॒भी नो॑ अग्न उ॒क्थमिज्जु॑गुर्या॒ द्यावा॒क्षामा॒ सिन्ध॑वश्च॒ स्वगू॑र्ताः ।
गव्यं॒ यव्यं॒ यन्तो॑ दी॒र्घाहेषं॒ वर॑मरु॒ण्यो॑ वरन्त ॥

पदपाठः

अ॒भि । नः॒ । अ॒ग्ने॒ । उ॒क्थम् । इत् । जु॒गु॒र्याः॒ । द्यावा॒क्षामा॑ । सिन्ध॑वः । च॒ । स्वऽगू॑र्ताः ।
गव्य॑म् । यव्य॑म् । यन्तः॑ । दी॒र्घा । अहा॑ । इष॑म् । वर॑म् । अ॒रु॒ण्यः॑ । व॒र॒न्त॒ ॥

सायणभाष्यम्

हेअग्ने नःउक्थंशस्त्रंअभिजुगुर्याः आभिमुख्येनस्तुहि प्रोत्साहय सम्यक् शस्तमित्यंगीकुरु गॄशब्दे लिङिबहुलंछन्दसीतिविकरणस्यश्लुः बहुलंछन्दसीत्युत्वं तथाद्यावाक्षामाद्यावापृथिव्यावपियज्ञसा- धनसंपादनेन प्रोत्साहयतां तथा सिन्धवः स्यन्दनशीलाः नद्यश्च स्वगूर्ताः स्वयमेवगामिन्यः गव्यं- गोसंभवंक्षीरादिकं गवांतृणाद्युत्पादनद्वारा यव्यं उपलक्षणमेतत् यवव्रीह्यादिजन्यं पुरोडाशादिकं यन्तःप्रापयन्तः प्रोत्साहयन्तु तथाअरुण्यः अरुणवर्णगोयुक्ताः मत्वर्थीयोलुप्यते आरुण्यसाधनभूता- उषसः तद्धेतुत्वात्ताच्छब्द्यं दीर्घाहा सर्वाण्यहानि सर्वकालं इषंइष्यमाणं अन्नरसादिकं वरं वरणीयं- श्रेष्ठं अन्यदपि यागसाधनं वरंत प्रापयन्तु वृङ्संभक्तौ अन्तर्भावितण्यर्थाच्छान्दसोलङ् व्यत्ययेनशप् साधयन्तु एतत्सर्वमग्नेःप्रसादादित्यग्नेरेवस्तुतित्वादाग्नेयत्वमविरुद्धम् ॥ १३ ॥

वळित्थेतिप्रयोदशर्चंद्वितीयंसूक्तं दैर्घतमसंजागतं अन्त्येत्रिष्टुभौ अग्निर्देवताअनुक्रम्यतेच—बळि- त्थेति प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः