मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४१, ऋक् ११

संहिता

अ॒स्मे र॒यिं न स्वर्थं॒ दमू॑नसं॒ भगं॒ दक्षं॒ न प॑पृचासि धर्ण॒सिम् ।
र॒श्मीँरि॑व॒ यो यम॑ति॒ जन्म॑नी उ॒भे दे॒वानां॒ शंस॑मृ॒त आ च॑ सु॒क्रतु॑ः ॥

पदपाठः

अ॒स्मे इति॑ । र॒यिम् । न । सु॒ऽअर्थ॑म् । दमू॑नसम् । भग॑म् । दक्ष॑म् । न । प॒पृ॒चा॒सि॒ । ध॒र्ण॒सिम् ।
र॒श्मीन्ऽइ॑व । यः । यम॑ति । जन्म॑नी॒ इति॑ । उ॒भे इति॑ । दे॒वाना॑म् । शंस॑म् । ऋ॒ते । आ । च॒ । सु॒ऽक्रतुः॑ ॥

सायणभाष्यम्

हेअग्ने त्वंअस्मे अस्मासु स्वर्थं सुष्ठुअरणीयं दमूनसं दमनीयं उपास्यं दमेरूनसिरित्यूनसिप्रत्ययः रयिंन पपृचासि धनंयथासंपृणक्षि तथाभगं सर्वैर्भजनीयं दक्षंन उत्साहवन्तं प्रवृद्धंवाधर्णसिं विद्यादि- धारणकुशलंपुत्रंयथापपृचासि संपृणक्षि उभयमपिददासीत्यर्थः पृचीसंपर्के लेट्याडागमः बहुलंछन्द- सीतिविकरणस्यश्लुः इदानीं परोक्षेणाह—योऽग्निः रश्मींरिव स्वकीयान्रश्मीन्यथायमति नियमयति विस्तारयति तद्वत् सउभेजन्मनी जननाधारभूतावुभौलोकौ यमति नियच्छति तथा सुक्रतुः शोभन- कर्मायं ऋते अस्मदीययज्ञे देवानां देवसंबन्धिनंशंसंस्तवंच आयमति आयच्छति सर्वदाददाति यद्वा पूर्वार्धेपपृचासीत्यपिपरोक्षत्वायप्रथमपुरुषतयायोज्यम् ॥ ११ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः