मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४२, ऋक् ८

संहिता

म॒न्द्रजि॑ह्वा जुगु॒र्वणी॒ होता॑रा॒ दैव्या॑ क॒वी ।
य॒ज्ञं नो॑ यक्षतामि॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश॑म् ॥

पदपाठः

म॒न्द्रऽजि॑ह्वा । जु॒गु॒र्वणी॒ इति॑ । होता॑रा । दैव्या॑ । क॒वी इति॑ ।
य॒ज्ञम् । नः॒ । य॒क्ष॒ता॒म् । इ॒मम् । सि॒ध्रम् । अ॒द्य । दि॒वि॒ऽस्पृश॑म् ॥

सायणभाष्यम्

मन्द्रजिह्वादेवानां मादनज्वालौ जुगुर्वणीभृशंगृणतां स्तुवतां यजमानानां संभक्तारौ यङ्लुग- न्तात्क्विपिछान्दसीरूपसिद्धिः तस्मिन्नुपपदे वनतेश्छन्दसिवनसनरक्षिमथामितीन्प्रत्ययः कवी मे- धाविनौ क्रान्तदर्शिनौ दैव्याहोतारा देवसंबन्धिनौहोतारौ अयंचमध्यमस्थानश्चेत्युभौ सिध्रंफलसा- धनभूतं सिधेःस्फायितंचीत्यादिनारक् दिविस्पृशं द्युलोकवासिदेवान्स्पृशन्तं तैर्हविषः स्वीक्रियमाण- त्वादितिभावः ईदृशंनोऽस्मदीयमिमंयज्ञंअद्ययक्षतां अनुतिष्ठतांपूजयतांवा सम्यङिर्वाहयतामित्यर्थः ॥ ८ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११