मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४३, ऋक् ८

संहिता

अप्र॑युच्छ॒न्नप्र॑युच्छद्भिरग्ने शि॒वेभि॑र्नः पा॒युभि॑ः पाहि श॒ग्मैः ।
अद॑ब्धेभि॒रदृ॑पितेभिरि॒ष्टेऽनि॑मिषद्भि॒ः परि॑ पाहि नो॒ जाः ॥

पदपाठः

अप्र॑ऽयुच्छन् । अप्र॑युच्छत्ऽभिः । अ॒ग्ने॒ । शि॒वेभिः॑ । नः॒ । पा॒युऽभिः॑ । पा॒हि॒ । श॒ग्मैः ।
अद॑ब्धेभिः । अदृ॑पितेभिः । इ॒ष्टे॒ । अनि॑मिषत्ऽभिः । परि॑ । पा॒हि॒ । नः॒ । जाः ॥

सायणभाष्यम्

हेअग्नेअप्रयुच्छन् अस्मास्वप्रमाद्यन् युच्छप्रमादे अविच्छिन्नप्रवृत्तिःसन् अप्रयुच्छद्भिः अप्रमाद्य- द्भिः अनवधानरहितैः शिवेभिः मन्त्रकल्याणैःशग्मैः सुखकरैः पायुभीरक्षणत्रकारैर्नोस्मान्पाहिरक्ष किंच हेइष्टेसर्वैःएषणीय अग्ने जाःजायमानः अस्माभिर्दीप्यमानःसन् अदब्धेरहिंसितैः अदृपितेभिः केनचिदप्यपरिभूतैः दृपदृंपउत्क्लेशे तौदादिकः अनिमिषद्भिः निमेषरहितैः अनलसस्वभावैःईदृशै- र्लक्षणैर्नोऽस्मान्परि परितः पाहिपालय यद्वा उपर्युपरिजायन्तइतिजाः नोजाःअस्मत्सबंन्धिनीःपुत्र- पौत्रादिरूपाः प्रजाः परिपाहि परितोरक्ष नकेवलमस्मान् किंतु अस्मत्पुत्रपौत्रादीनपिरक्ष ॥ ८ ॥

एतिप्रहोतेतिसप्तर्चंपंचमंसूक्तं दैर्घतमसंजागतं पूर्वत्राग्नेयंतुतदित्युक्तत्वात् इदमप्याग्नेयं तथाचा- नुक्रमणिका—एतिप्रसप्तजागतमिति प्रातरनुवाकाश्विनशस्त्र्योर्विनियोगउक्तः ।

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२