मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४४, ऋक् २

संहिता

अ॒भीमृ॒तस्य॑ दो॒हना॑ अनूषत॒ योनौ॑ दे॒वस्य॒ सद॑ने॒ परी॑वृताः ।
अ॒पामु॒पस्थे॒ विभृ॑तो॒ यदाव॑स॒दध॑ स्व॒धा अ॑धय॒द्याभि॒रीय॑ते ॥

पदपाठः

अ॒भि । ई॒म् । ऋ॒तस्य॑ । दो॒हनाः॑ । अ॒नू॒ष॒त॒ । योनौ॑ । दे॒वस्य॑ । सद॑ने । परि॑ऽवृताः ।
अ॒पाम् । उ॒पऽस्थे॑ । विऽभृ॑तः । यत् । आ । अव॑सत् । अध॑ । स्व॒धाः । अ॒ध॒य॒त् । याभिः॑ । ईय॑ते ॥

सायणभाष्यम्

ऋतस्योदकस्यदोहनाः धारायोनौउत्पत्तिस्थाने देवस्यसदने द्योतमानस्यादित्यस्यस्थाने परीवृ- ताः तद्रश्मिभिः परितोव्याप्ताःसत्यः ईमेनमग्निंअभ्यनूषत अभिनवाभवन्ति आभवन्त्येवस्तूयन्तेवा कदेत्यतआह—यत् यदाअपामुपस्थे उदकानामुत्सङ्गेअन्तः विभवः विशेशेण ताभिर्धार्यमाणःसन् आवसत् आक्रम्यनिवसति अयमग्निः तदानीमित्यर्थः अधअधुनास्वधाः अमृतोपमाः अपः अधयत् पिबति सर्वोलोकः ताविशेष्यन्ते याभिः सहईयते अयमग्निः संगच्छतेवाभूमिंताअधयत् विद्युदात्म- नाउदकानि जगत्पाययतइत्यग्नेः स्तुतिः ॥ २ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३