मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४४, ऋक् ५

संहिता

तमीं॑ हिन्वन्ति धी॒तयो॒ दश॒ व्रिशो॑ दे॒वं मर्ता॑स ऊ॒तये॑ हवामहे ।
धनो॒रधि॑ प्र॒वत॒ आ स ऋ॑ण्वत्यभि॒व्रज॑द्भिर्व॒युना॒ नवा॑धित ॥

पदपाठः

तम् । ई॒म् । हि॒न्व॒न्ति॒ । धी॒तयः॑ । दश॑ । व्रिशः॑ । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ । ह॒वा॒म॒हे॒ ।
धनोः॑ । अधि॑ । प्र॒ऽवतः॑ । आ । सः । ऋ॒ण्व॒ति॒ । अ॒भि॒व्रज॑त्ऽभिः । व॒युना॑ । नवा॑ । अ॒धि॒त॒ ॥

सायणभाष्यम्

देवं द्योतमानं तमीमेनमग्निं दशधीतयः दशसंख्याकाअंगुलयः व्रिशः विशः परस्परविश्लिष्टाः हि- न्वन्ति प्रीणयन्तिमथनकाले तथामर्तासोमनुष्यावयं यजमानाः ऊतयेरक्षणाय हवामहे आह्वयामः कोऽस्यविशेषइतिउच्यते अयमग्निः धनोर्धनुषःसकाशात् प्रवतः आ प्रकर्षेणगच्छतोवाणानिव तान्य- थाशत्रोरुपरिमुंचंति आइत्युपमार्थे तद्वत् सोऽग्निःधनुःस्थानीयान्निजशरीरसकाशात् प्रवतः प्रकृष्टवेग- वतोरश्मीन् ऋण्वति गमयति रिविर्गत्यर्थः अत्रान्तर्भावितण्यर्थोयं इदित्त्वान्नुम् छान्दसंरेफस्यसंप्र- सारणं अधिशब्दोनर्थकोधात्वर्थमामात्रानुवादी किंच एवंप्रवृद्धोऽग्निः अभिव्रजद्भिरनुष्ठानार्थं अभितः संचरद्भिः ज्ञेयमर्थमभिगच्छद्भिर्वा तदर्थंनवानवानि नूतनानि वयुना वयुनानि प्रज्ञानानि अनुष्ठान- विषयाणि अधितधारयति ज्ञापयतीत्यर्थः यद्वा अधिव्रजद्भिः आभिमुख्येनगच्छद्भिः होत्रादिभिः क्रियमाणानि नवा नवानि वयुनानि प्रज्ञाविशिष्टानिस्तोत्रादीनि अधित धत्ते धाञश्छान्दसेलुङि- स्थाघ्वोरिच्चेतीत्वं उत्तरस्यसिचः कित्त्वं ह्रस्वादंगादितिसलोपः ॥ ५ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३