मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४४, ऋक् ७

संहिता

अग्ने॑ जु॒षस्व॒ प्रति॑ हर्य॒ तद्वचो॒ मन्द्र॒ स्वधा॑व॒ ऋत॑जात॒ सुक्र॑तो ।
यो वि॒श्वतः॑ प्र॒त्यङ्ङसि॑ दर्श॒तो र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयः॑ ॥

पदपाठः

अग्ने॑ । जु॒षस्व॑ । प्रति॑ । ह॒र्य॒ । तत् । वचः॑ । मन्द्र॑ । स्वधा॑ऽवः । ऋत॑ऽजात । सुक्र॑तो॒ इति॒ सुऽक्र॑तो ।
यः । वि॒श्वतः॑ । प्र॒त्यङ् । असि॑ । द॒र्श॒तः । र॒ण्वः । सम्ऽदृ॑ष्टौ । पि॒तु॒मान्ऽइ॑व । क्षयः॑ ॥

सायणभाष्यम्

हेअग्ने जुषस्व सेवस्वहविः प्रीतोभववास्तुत्या किंच तत्तादृशंप्रियकरंवचः वाग्रूपंस्तोत्रं प्रतिहर्य- पुनः कामयस्व हेमन्द्र मादनशील स्तुत्यवा हेस्वधावः हविर्लक्षणान्नवन् हेऋतजात यज्ञार्थमुत्पन्न हे- सुक्रतो शोभनकुर्मन् शोभनप्रज्ञवा यईदृशस्त्वं विश्वतः सर्वस्य स्थावरजंगमस्य जगतः प्रत्यङ्ङसि अभिमतःअनुकूलोसि नपराङ्मुखइत्यर्थः तथादर्शतः दर्शनीयः सर्वैः किंच संदृ ष्टौसम्यग्दर्शने रण्वः रमणशीलः रमयितावाभवसिसर्वस्य यद्वा तवसंदृष्टौसत्यांसर्वोजनः क्षयोनिवासवान् भवति तत्रदृ- ष्टान्तः—पितुमानिवअतिप्रभूतान्नस्वामी यथासर्वैर्वस्तव्योगन्तव्यश्च भवति तद्वत् ॥ ७ ॥

तंपृच्छतेतिपंचर्चंपंचमंसूक्तम् अत्रानुक्रमणिका—तंपृच्छतपंचांत्यात्रिष्टुबिति दीर्घतमाऋषिः पूर्वत्राग्नेयंतुतदित्युक्तत्वादिदमप्याग्नेयं अन्त्यात्रिष्टुप् शिष्टास्त्रिष्टुवन्तपरिभाषयाजगत्यः प्रातरनुवा- काश्विनशस्त्रयोरस्यविनियोगउक्तः ।

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३