मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४५, ऋक् २

संहिता

तमित्पृ॑च्छन्ति॒ न सि॒मो वि पृ॑च्छति॒ स्वेने॑व॒ धीरो॒ मन॑सा॒ यदग्र॑भीत् ।
न मृ॑ष्यते प्रथ॒मं नाप॑रं॒ वचो॒ऽस्य क्रत्वा॑ सचते॒ अप्र॑दृपितः ॥

पदपाठः

तम् । इत् । पृ॒च्छ॒न्ति॒ । न । सि॒मः । वि । पृ॒च्छ॒ति॒ । स्वेन॑ऽव । धीरः॑ । मन॑सा । यत् । अग्र॑भीत् ।
न । मृ॒ष्य॒ते॒ । प्र॒थ॒मम् । न । अप॑रम् । वचः॑ । अ॒स्य । क्रत्वा॑ । स॒च॒ते॒ । अप्र॑ऽदृपितः ॥

सायणभाष्यम्

पूर्वमन्त्रेग्निंपृच्छतेत्युक्तं अत्रतुसो नुनयेनप्रष्टव्यइत्याह—तमित् तमेवाग्निंपृच्छंति सतुनान्यंपृच्छ- ति प्रश्नसमयेऽपि सिमः सर्वजनोनविपृच्छति विपरीतनपृच्छति पृष्टोऽपिधीरोधीमानयं स्वेनेवमनसा इवशाब्दएवार्थे स्वकीयथैवबुद्भ्यायद्यत् कार्यं अग्रभीत् वदामीत्यादत्ते तदेवप्रतिब्रूते नतुप्रश्नानुकूलं स्वतंत्रेश्वरइत्युक्तंभवति यद्वा प्रष्टाधीरोधीमान्स्वेनेव स्वेनमनसावाचा वाच्यंविचार्य यदग्रभीत् य- द्वाक्यंवक्तव्यत्वेनस्वीकुर्यात् तदेवाग्निंपृच्छति नतुबहुभाषतइत्यर्थः परवाक्यासह्यत्वमाह-अयमग्निः प्रथमंवचः स्ववाक्यात्पूर्वभाविवचनं नमृष्यतेनसहते तथा अपरंवचः स्वोक्त्यनन्तरभाविप्रतिवचनं नमृष्यते यस्मादयमेवंविधः तस्मादप्रदृपितः अप्रदृप्तः यद्वा तेनशिक्षितः अनुद्दण्डः सर्वोलोकः अस्य- महानुभावस्याग्नेः क्रत्वाक्रतुनारक्षणादिकर्मणासहसचते संगच्छतेजीवतीत्यर्थः ॥ २ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४