मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४८, ऋक् ५

संहिता

न यं रि॒पवो॒ न रि॑ष॒ण्यवो॒ गर्भे॒ सन्तं॑ रेष॒णा रे॒षय॑न्ति ।
अ॒न्धा अ॑प॒श्या न द॑भन्नभि॒ख्या नित्या॑स ईं प्रे॒तारो॑ अरक्षन् ॥

पदपाठः

न । यम् । रि॒पवः॑ । न । रि॒ष॒ण्यवः॑ । गर्भे॑ । सन्त॑म् । रे॒ष॒णाः । रे॒षय॑न्ति ।
अ॒न्धाः । अ॒प॒श्याः । न । द॒भ॒न् । अ॒भि॒ऽख्या । नित्या॑सः । ई॒म् । प्रे॒तारः॑ । अ॒र॒क्ष॒न् ॥

सायणभाष्यम्

यमग्निंगर्भेगर्भवद्रक्षकेअरणिमध्येसन्तंवर्तमानंरिपवोनराः नरेषयन्ति नदुःखयन्ति तथा रिषण्य- वोऽन्येहिंसकाः दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यतीतिक्यचिनिपात्यते क्याच्छन्दसीत्युः नहिंसन्ति कीदृशास्ते रेषणाः हिंसनस्वभावाः यद्वा तैः क्रियमाणाहिंसनप्रकारानहिंसन्ति किंचास्याभिख्या अभितःख्यातिंमाहात्म्यंअंधाः ज्ञानशक्तिरहिताः अविद्वांसः अतएवअपश्याः अद्रष्टारः यद्वा विद्वां- सोप्यभावयितारः अनुपासकाइत्यर्थः ईदृग्रूपाभयेऽपिनदभन् नदभ्नुवन्ति नहिंसन्ति लौकिकोपका- रेणापिप्रयोजकत्वादितिभावः तर्ह्यस्यपारमार्थिकंरूपंकेजानन्तीतिचेत् उच्यतेनित्यासोनित्याः अवि- चलितभक्तयः अग्निहोत्रादिनित्यकर्मरतावाअग्न्यनुग्रहात् स्वयमपि नित्याभविष्यन्तीतिभाविनित्य- त्वमाश्रित्यनित्यौपचर्यन्ते तादृशायजमानाः प्रेतारः यज्ञादिनातमेवतर्पयितारः सन्तः ईंएनमरक्षन् रक्षन्ति यज्ञादिरूपेणभजन्तइत्यर्थः ॥ ५ ॥

महःसइति पंचर्चंनवमंसूक्तम् दैर्घतमसंवैराजमाग्नेयं दशकास्त्रयोविराळेकादशकावेत्युक्तलक्षण- सद्भावात् तथाचानुक्रान्तं—महःसवैराजमिति विनियोगोलैङ्गिकः ।

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७