मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४९, ऋक् ४

संहिता

अ॒भि द्वि॒जन्मा॒ त्री रो॑च॒नानि॒ विश्वा॒ रजां॑सि शुशुचा॒नो अ॑स्थात् ।
होता॒ यजि॑ष्ठो अ॒पां स॒धस्थे॑ ॥

पदपाठः

अ॒भि । द्वि॒ऽजन्मा॑ । त्री । रो॒च॒नानि॑ । विश्वा॑ । रजां॑सि । शु॒शु॒चा॒नः । अ॒स्था॒त् ।
होता॑ । यजि॑ष्ठः । अ॒पाम् । स॒धऽस्थे॑ ॥

सायणभाष्यम्

अयमग्निर्द्विजन्मा द्वाभ्यामरणीभ्यांजायमानः यद्वा मथनात्प्रथमंजन्मउत्पत्त्यनंतरंपवमानेष्ट्या- दिसंस्काररूपंद्वितीयंजन्मइव एवंद्विजन्मत्वं अथवा द्यापृथिवीभ्यामुत्पन्नत्वात् तादृशोऽग्निः त्रीरो- चनानि क्षित्यादिस्थानानि त्रीणिरोचनानि गार्हपत्यादीनिवा अभिशुशुचानः अभितःप्रकाशयन् नकेवलंत्रीण्येव किंतु विशारजांसि सर्वाण्यपिरंजनात्मकानि क्षित्यादिलोकान् शुशुचानः अभितः प्रकाशयन् दीपयन् होतादेवानामाह्वाता यजिष्ठोयष्टृतमःसन् अपांप्रोक्षण्याद्युदकानां सधस्थे सह- स्थाने यागदेशे अस्थात् तिष्ठति ॥ ४ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८