मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४९, ऋक् ५

संहिता

अ॒यं स होता॒ यो द्वि॒जन्मा॒ विश्वा॑ द॒धे वार्या॑णि श्रव॒स्या ।
मर्तो॒ यो अ॑स्मै सु॒तुको॑ द॒दाश॑ ॥

पदपाठः

अ॒यम् । सः । होता॑ । यः । द्वि॒ऽजन्मा॑ । विश्वा॑ । द॒धे । वार्या॑णि । श्र॒व॒स्या ।
मर्तः॑ । यः । अ॒स्मै॒ । सु॒ऽतुकः॑ । द॒दाश॑ ॥

सायणभाष्यम्

योद्विजन्मासएवहोताहोमनिष्पादकः अरणीभ्यामुत्पन्नस्यैवगार्ह पत्यद्वाराआहवनीयत्वात् आ- ह्वातावादेवानांसोऽयं विश्वाविश्वानिवार्याणि वरणीयानि ईडवंदवृशंसदुहांण्यतइत्याद्युदात्तत्वं श्र- वस्या श्रवस्यया श्रवोन्नंहविर्लक्षणंतदिच्छया श्रवःशब्दात् क्यजन्तादप्रत्ययादिति भावेअप्रत्ययः द- धेधारयति अस्मैउक्तस्वरूपायाग्नयेयोमर्तः ददाशददातिससुतुकः शोभनपुत्रोभवति ॥ ५ ॥

पुरुत्वेतितृचात्मकंदशमंसूक्तम् दैर्घतसमाग्नेयमौष्णिहं पुरुतृचमौष्णिहमित्यनुक्रमणिका प्रातरनु- वाकाश्विनशस्त्रयोरौष्णिहेछन्दस्यस्यविनियोगः अथैतस्याइतिखण्डेसूत्रितम्—पुरुत्वात्वामग्नइति ।

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८