मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५१, ऋक् ३

संहिता

आ वां॑ भूषन्क्षि॒तयो॒ जन्म॒ रोद॑स्योः प्र॒वाच्यं॑ वृषणा॒ दक्ष॑से म॒हे ।
यदी॑मृ॒ताय॒ भर॑थो॒ यदर्व॑ते॒ प्र होत्र॑या॒ शिम्या॑ वीथो अध्व॒रम् ॥

पदपाठः

आ । वा॒म् । भू॒ष॒न् । क्षि॒तयः॑ । जन्म॑ । रोद॑स्योः । प्र॒ऽवाच्य॑म् । वृ॒ष॒णा॒ । दक्ष॑से । म॒हे ।
यत् । ई॒म् । ऋ॒ताय॑ । भर॑थः । यत् । अर्व॑ते । प्र । होत्र॑या । शिम्या॑ । वी॒थः॒ । अ॒ध्व॒रम् ॥

सायणभाष्यम्

हेवृषणा कामानांवर्षितारौ हेमित्रावरुणौवांयुवयोः संबन्धिजन्मजननं उत्पत्तिं रोदस्योः द्यावा- पृथिव्योः सक्राशात् द्यावापृथिवीभ्यामेवसर्वेषामुत्पत्तेः यद्वा मित्रइतिसर्वोपकार्यग्निरुच्यते वरुणइ- तितमोनिवारकआदित्यः उभयोःपृथिवीद्युस्थानत्वात् ततः पूर्वमन्त्रेमित्रदृष्टान्तत्वेनाग्निःस्तुतः अत- इदमधिगम्यते अग्निरेवमित्रइति तथान्यत्रापि अग्निंमित्रंनक्षितिषुप्रशंस्यं मित्रंवयंसुधितंभृगवोदधुरि- तिच । प्रवाच्यंस्तुत्यंतादृग्युवयोर्जन्ममहेमहते दक्षसे सर्वविषयबलाय क्षितयोमनुष्यायजमानाः आ- भूषन् सर्वतोलंकुर्वन्तिश्लाघन्तइत्यर्थः जन्मनःप्रवाच्यत्वमाह—यदीं यस्मादेवकारणात् अथवा ईमि- त्यनर्थकः मिताक्षरेष्वनर्थकाः कमीमिद्वितीत्युक्तत्वात् । ऋताय यज्ञायभरथः सामर्थ्यं यत् यस्माच्च- कारणात् अर्वते युष्मान्प्राप्तवते यजमानायचभरथोभिमतं फलं अथवा उभयत्रकर्मणः संप्रदानत्वाच्च- तुर्थी यज्ञंयजमानंचभरथइत्यर्थः तथाच होत्रयास्तुतिरूपयावाचा शिम्या हविःप्रदानादिकर्मणाच प्रवीथः प्रकर्षेणप्राप्नुथः तस्मात्तत्प्रवाच्यंजन्मभूषयन्तीत्यर्थः होत्रेवाङाम होत्रागीरितितन्नामसुपाठा- त् ॥ ३ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०