मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५१, ऋक् ८

संहिता

यु॒वां य॒ज्ञैः प्र॑थ॒मा गोभि॑रञ्जत॒ ऋता॑वाना॒ मन॑सो॒ न प्रयु॑क्तिषु ।
भर॑न्ति वां॒ मन्म॑ना सं॒यता॒ गिरोऽदृ॑प्यता॒ मन॑सा रे॒वदा॑शाथे ॥

पदपाठः

यु॒वाम् । य॒ज्ञैः । प्र॒थ॒मा । गोभिः॑ । अ॒ञ्ज॒ते॒ । ऋत॑ऽवाना । मन॑सः । न । प्रऽयु॑क्तिषु ।
भर॑न्ति । वा॒म् । मन्म॑ना । स॒म्ऽयता॑ । गिरः॑ । अदृ॑प्यता । मन॑सा । रे॒वत् । आ॒शा॒थे॒ इति॑ ॥

सायणभाष्यम्

हे ऋतावाना यज्ञवन्तौवृष्ट्युदकवन्तौ वा मित्रावरुणौ युवां प्रथमाप्रथमौ यज्ञैर्यजमानसाधनैर्गो- भिः गोविकारैः पयआदिभिः अंजते व्यंजयन्ति यजमानाः देवभागंयागेषु क्षीरादिभिर्यजन्तइत्यर्त्यः यद्वा गोभिर्वाग्भिरंजते स्तुवन्ति तत्रदृष्टान्तः—प्रयुक्तिषुप्रयोगेषु मनसोन कर्मणिषष्ठी मनइव तद्यथा प्रथमंव्यञ्जयन्ति मुख्यंकुर्वन्ति तसूर्वकत्वात्सर्वव्यवहारस्य किंच वांयुवां मन्मना मननवता संयतायु- वामेवस्मयग्गच्छता चित्तेन गिरः स्तुतीर्भरन्ति संपादयन्ति यस्मादेवं तस्मात् अदृप्यता अनभिभ- वतामनसाप्रकृष्टेन चेत सायुक्तौसन्तौरेवत् धनवत्कर्मास्मदीयमाशाथे अश्नुवाथे व्याप्नुथः ददाथेइत्य- र्थः अश्नोतेर्लिटि अनित्यमागमशासनमितिवचनादिडभावः ॥ ८ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१