मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५२, ऋक् १

संहिता

यु॒वं वस्त्रा॑णि पीव॒सा व॑साथे यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गा॑ः ।
अवा॑तिरत॒मनृ॑तानि॒ विश्व॑ ऋ॒तेन॑ मित्रावरुणा सचेथे ॥

पदपाठः

यु॒वम् । वस्त्रा॑णि । पी॒व॒सा । व॒सा॒थे॒ इति॑ । यु॒वोः । अच्छि॑द्राः । मन्त॑वः । ह॒ । सर्गाः॑ ।
अव॑ । अ॒ति॒र॒त॒म् । अनृ॑तानि । विश्वा॑ । ऋ॒तेन॑ । मि॒त्रा॒व॒रु॒णा॒ । स॒चे॒थे॒ इति॑ ॥

सायणभाष्यम्

हेमित्रावरुणौ पीवसा पीनौ युवंयुवां यद्वा पीवसा पीनान्यच्छिन्नानिवस्त्राण्याच्छादनयोग्यानि वासांसि वसाथे आच्छादयथः यद्वा पीवसा स्थूलेन प्रभूतेन तेजसा वस्त्राणिदधाथे अविच्छिन्नानि वस्त्रस्थानीयनितेजांसि धारयथइत्यर्थः किंच युवयोः सर्गाः सृष्टयः अच्छिद्राः अच्छिन्नाः मन्तवोह मननीयाश्च ईदृशौ युवां विश्वा विश्वानि सर्वाणिअनृतानि असत्यानि अप्रियाणि पापान्यवातिरतं नाशयतम् विश्वेत्यत्रसंहितायां ऋत्यकइतिप्रकृतिभावोह्रस्वत्वंच ऋतेनफलेन तत्साधनेनयज्ञेनवास- चेथे संगच्छेथे अस्मभ्यं योजयथइत्यर्थः ॥ १ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२