मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५२, ऋक् ३

संहिता

अ॒पादे॑ति प्रथ॒मा प॒द्वती॑नां॒ कस्तद्वां॑ मित्रावरु॒णा चि॑केत ।
गर्भो॑ भा॒रं भ॑र॒त्या चि॑दस्य ऋ॒तं पिप॒र्त्यनृ॑तं॒ नि ता॑रीत् ॥

पदपाठः

अ॒पात् । ए॒ति॒ । प्र॒थ॒मा । प॒त्ऽवती॑नाम् । कः । तत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । आ । चि॒के॒त॒ ।
गर्भः॑ । भा॒रम् । भ॒र॒ति॒ । आ । चि॒त् । अ॒स्य॒ । ऋ॒तम् । पिप॑र्ति । अनृ॑तम् । नि । ता॒री॒त् ॥

सायणभाष्यम्

हेमित्रावरुणा मित्रावरुणौ पद्वतीनां मनुष्यादीनां प्रजानां प्रथमाप्रथमभाविनी अपात् पादर- हितोषाः प्रतिदिनं सूर्यचन्द्रादिवत् स्वस्याः परिभ्रमणाभावात् सूर्यगमनेनैव स्वगमनादपादितिच- एतीतिचोपचर्यते तत् तादृशंवां युवयोः प्रसिद्धंकर्म कःआचिकेत कःआभिमुख्येनजानाति कितज्ञाने अतःस्तुत्यमित्यर्थः मित्रावरुणयोरहोरात्रदेवत्वादहोरात्रयोरन्तरालस्यैवोषस्त्वादेतत्कर्मत्वं किंचा- स्यलोकस्यभारंनिर्वाहं गर्भः युवयोः गर्भस्थानीयः शिशुरादित्यः अहोरात्रयोर्मध्यकालउत्पत्तेस्ता- भ्यामेव मित्रावरुणत्वात् अहोरात्रेवैमित्रावरुणावितिश्रुतेः । सआभरतिचित् समन्तान्निर्वहत्येवहर- तिवास्यभारंजाड्यं चिदित्यवधारणे तत्कथमितितदुच्यतेऋतंसत्यंजगतः प्रकाशगमनादिरूपं पिपर्ति पूरयति अनृतं उक्तविलक्षणं अन्धकारं गमनादि निरोधंच नितारीत् नितरति निमज्जयति नाशयती- त्यर्थः शिशोर्जगद्भारवहनरूपं कर्मयुष्मत्सामर्थ्यादिति ॥ ३ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२