मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५२, ऋक् ५

संहिता

अ॒न॒श्वो जा॒तो अ॑नभी॒शुरर्वा॒ कनि॑क्रदत्पतयदू॒र्ध्वसा॑नुः ।
अ॒चित्तं॒ ब्रह्म॑ जुजुषु॒र्युवा॑न॒ः प्र मि॒त्रे धाम॒ वरु॑णे गृ॒णन्त॑ः ॥

पदपाठः

अ॒न॒श्वः । जा॒तः । अ॒न॒भी॒शुः । अर्वा॑ । कनि॑क्रदत् । प॒त॒य॒त् । ऊ॒र्ध्वऽसा॑नुः ।
अ॒चित्त॑म् । ब्रह्म॑ । जु॒जु॒षुः॒ । युवा॑नः । प्र । मि॒त्रे । धाम॑ । वरु॑णे । गृ॒णन्तः॑ ॥

सायणभाष्यम्

सएवादित्यः अनश्वः यद्यपिशीघ्रगाम्यश्वरहितः तथाअनभीशुः आलंबनाधारप्रग्रहस्थानीयर- श्मिरहितः तथाप्यर्वाजातः शीघ्रगमनवान्संपन्नः तथाविधोयमादित्यः कनिक्रदत् अत्यर्थंक्रन्दयन् क्रन्देर्यङ्लुगन्ताच्छतरिदाधर्त्यादौनिपात्यते ऊर्ध्वसानुः उपर्युपरिसमुच्छ्रयणः सन् पतयत् गच्छति अचित्तंचित्ताविषयं ब्रह्मपरिवृढंउक्तरूपंकर्ममित्रेवरुणेचउभयोर्धामतेजः स्थानंयुवानः मिश्रयन्तः तयोर्धाम्निआरोपयन्तः तथाप्रगृणन्तः युवयोस्तेजःप्रभावमतिप्रकर्षेणस्तुवन्तः जुजुषुः सेवन्तेमनुष्याः सूर्यस्यनिरालंबांतरिक्षसंचारात्मकंकर्मवरुणमित्रयोरधीनमितिस्तुवन्तीत्यर्थः ॥ ५ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२