मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५५, ऋक् १

संहिता

प्र व॒ः पान्त॒मन्ध॑सो धियाय॒ते म॒हे शूरा॑य॒ विष्ण॑वे चार्चत ।
या सानु॑नि॒ पर्व॑ताना॒मदा॑भ्या म॒हस्त॒स्थतु॒रर्व॑तेव सा॒धुना॑ ॥

पदपाठः

प्र । वः॒ । पान्त॑म् । अन्ध॑सः । धि॒या॒ऽय॒ते । म॒हे । शूरा॑य । विष्ण॑वे । च॒ । अ॒र्च॒त॒ ।
या । सानु॑नि । पर्व॑तानाम् । अदा॑भ्या । म॒हः । त॒स्थतुः॑ । अर्व॑ताऽइव । सा॒धुना॑ ॥

सायणभाष्यम्

हे अध्वर्य्वादयः वोयुष्माकंसंबन्धिपान्तं पालनस्वभावं पातव्यंवाअन्धसः अन्धःसोमरूपमन्नंप्रा- र्चत प्रकर्षेणसंपादयत कस्मैधियायते स्तुतीरिच्छते महेमहतेशूराय विक्रान्तायेन्द्रायविष्णवेव्यापका- यएतन्नामकायदेवायच कस्तयोरतिशयइत्युच्यते—या यौ इन्द्राविष्णूपर्वतानां प्रीणनवतां पूरणव- तांवा पर्वतशब्दोयास्केनैवंनिरुक्तः—पर्ववान् पर्वतः पर्वपुनः पृणातेःप्रीणातेर्वेति । उक्तलक्षणानां लोकानां सानुनि समुच्छ्रितप्रदेशे सर्वलोकेइत्यर्थः अथवा मेघानां समुच्छ्रितप्रदेशे पर्वतशब्दोमेघना- मसूक्तत्वात् तत्रतस्थातुः तिष्ठतः कीदृशौतौ अदाभ्या अदंभनीयौ परैरनभिभाव्यौ अतएवमहः महा- न्तौ यद्वा महोमहसिस्वतेजसि सानुनीत्यनेनसंबन्धः तत्रदृष्टान्तः—साधुना अभिमतदेशप्रापणसमर्थे- न अर्वता वेगवता अश्वेनेव तेन यथा अत्युच्छ्रितं प्रदेशमारोहति तद्वदुच्चंपदमारूढौ तस्मात्ताभ्याम- र्चत ॥ १ ॥ सोमातिरेकेतृतीयसवने एषावैकल्पिकीयाज्या तथाचसूत्रितम्—त्वेषमित्थासमरणंशिमीवतो- रितिवायाज्येति ।

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५