मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५७, ऋक् १

संहिता

अबो॑ध्य॒ग्निर्ज्म उदे॑ति॒ सूर्यो॒ व्यु१॒॑षाश्च॒न्द्रा म॒ह्या॑वो अ॒र्चिषा॑ ।
आयु॑क्षाताम॒श्विना॒ यात॑वे॒ रथं॒ प्रासा॑वीद्दे॒वः स॑वि॒ता जग॒त्पृथ॑क् ॥

पदपाठः

अबो॑धि । अ॒ग्निः । ज्मः । उत् । ए॒ति॒ । सूर्यः॑ । वि । उ॒षाः । च॒न्द्रा । म॒ही । आ॒वः॒ । अ॒र्चिषा॑ ।
अयु॑क्षाताम् । अ॒श्विना॑ । यात॑वे । रथ॑म् । प्र । अ॒सा॒वी॒त् । दे॒वः । स॒वि॒ता । जग॑त् । पृथ॑क् ॥

सायणभाष्यम्

अयमग्निर्विहितःसन् ज्मः ज्मायाः पृथिव्यावेदिलक्षणायाःसंबन्धीसन् अबोधि प्रतिबोधितः ज्मे- तिपृथिवीनाम ग्माज्मेतितन्नामसूक्तत्वात् किंच सूर्यउदेति तथा महीमहती उषाः अर्चिषा प्रकृष्टेनते- जसा चन्द्रा प्राणिनामाह्लादिनीसतीव्यावः तमांसिविवासयति वसेर्लुङिछान्दसश्च्लेर्लुक् छन्दस्यपि- दृश्यतइत्याडागमः यतइयमुषाः उदेति यतश्चसूर्यः यतश्चायमग्निः प्रवृद्धोभवति अतःकारणात् हेअ- श्विना अश्विनौ युष्मत्संबन्धिनंरथं यातवे देवः देवयजनगमनायरासभाभ्यांअयुक्षातां आभिमुख्येन- युंजाथां तथा सवितासर्वकर्मणोनुज्ञातादेवोजगत् जंगमंप्राणिजातं पृथक् स्वस्वकर्मानुरोधेन प्रासा- वीत् प्रसौतु अनुजानातु ॥ १ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७