मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५७, ऋक् ३

संहिता

अ॒र्वाङ्त्रि॑च॒क्रो म॑धु॒वाह॑नो॒ रथो॑ जी॒राश्वो॑ अ॒श्विनो॑र्यातु॒ सुष्टु॑तः ।
त्रि॒व॒न्धु॒रो म॒घवा॑ वि॒श्वसौ॑भग॒ः शं न॒ आ व॑क्षद्द्वि॒पदे॒ चतु॑ष्पदे ॥

पदपाठः

अ॒र्वाङ् । त्रि॒ऽच॒क्रः । म॒धु॒ऽवाह॑नः । रथः॑ । जी॒रऽअ॑श्वः । अ॒श्विनोः॑ । या॒तु॒ । सुऽस्तु॑तः ।
त्रि॒ऽव॒न्धु॒रः । म॒घऽवा॑ । वि॒श्वऽसौ॑भगः । शम् । नः॒ । आ । व॒क्ष॒त् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे ॥

सायणभाष्यम्

अश्विनोरथः अर्वाङ् अस्मदभिमुखोयातु गच्छतु कीदृशःत्रिचकः चक्रत्रययुक्तः मधुवाहनः मधु- वोढा जीराश्वः शीघ्रगाम्यश्वोपेतः सुष्टुतः अतएवअस्माभिःस्तूयमानः त्रिवन्धुरः निम्नोन्नतकाष्ठत्र- योपेतः सारथ्याश्रयस्थानंवंधुरं मघवाधनवान् अतएवविश्वसौभगः सर्वसौभाग्योपेतः ईदृशः अश्वि- नोरथः नोऽस्माकंद्विपदे पुत्रादिप्रजायै चतुष्पदे पशवेचशंसुखंआवक्षत् आवहतु वहेर्लेट्यडागमः सिप् ॥ ३ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७