मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६०, ऋक् ४

संहिता

अ॒यं दे॒वाना॑म॒पसा॑म॒पस्त॑मो॒ यो ज॒जान॒ रोद॑सी वि॒श्वश॑म्भुवा ।
वि यो म॒मे रज॑सी सुक्रतू॒यया॒जरे॑भि॒ः स्कम्भ॑नेभि॒ः समा॑नृचे ॥

पदपाठः

अ॒यम् । दे॒वाना॑म् । अ॒पसा॑म् । अ॒पःऽत॑मः । यः । ज॒जान॑ । रोद॑सी॒ इति॑ । वि॒श्वऽश॑म्भुवा ।
वि । यः । म॒मे । रज॑सी॒ इति॑ । सु॒क्र॒तु॒ऽयया॑ । अ॒जरे॑भिः । स्कम्भ॑नेभिः । सम् । आ॒नृ॒चे॒ ॥

सायणभाष्यम्

पूर्वंपुत्रमाहात्म्येनैतेप्रशस्येदानींस्वोत्पादकंस्तुत्यंप्रशंसति—अयंदेवानांमध्येदेवतयः अपसां अप- स्तमः अपइतिकर्मनाम तेनतद्वान् लक्ष्यते कर्मवतांमध्येप्रकृष्टकर्मा अयमित्युक्तं कइत्याह—योदेवो- विश्वशंभुवासर्वप्रकारेणभूतानांसुखस्यभावयित्र्यौ रोदसी द्यावापृथिव्यौ महानुभावेजजानउत्पादि- तवान् नकेवलमुत्पादनामात्रं अपितु योदेवोरजसी रंजनात्मिकेद्यावापृथिव्यौ रजसीइतिद्यावापृथि- व्योर्नाम रजसीसदसीइतितन्नामसुपाठात् उक्तरूपेविममे विशॆषेण परिछिनत्ति किंस्वोपभोगाय ने- त्याह—सुक्रतूयया शोभनकर्मेच्छया येनकर्मणाप्राणिनांसुखंभवति तादृक्कर्मेच्छया अथवैतदुत्तरत्रसं- बध्यते सुक्रतूयया उक्तेननिमित्तेनेमेद्यावापृथिव्यावजरेभिः अजीर्णैर्दृढतरैः स्कंभनेभिः गतिप्रतिबं- धनैः शंकुभिः समानृचे सम्यक्सर्वतः पूजितवान् स्थापितवानित्यर्थः ऋचस्तुतौ लिटिरेफसामान्या- द्द्विहल् त्वमस्तीति तस्मान्नुङ् द्विहलइत्यभ्यासस्यनुट् यस्मादेवंतस्मादयमेवदेवः अयमेवायस्तमइति एवंमहानुभावेन परमेश्वरेणोत्पन्नेइतिस्तुतिः ॥ ४ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः