मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६१, ऋक् २

संहिता

एकं॑ चम॒सं च॒तुरः॑ कृणोतन॒ तद्वो॑ दे॒वा अ॑ब्रुव॒न्तद्व॒ आग॑मम् ।
सौध॑न्वना॒ यद्ये॒वा क॑रि॒ष्यथ॑ सा॒कं दे॒वैर्य॒ज्ञिया॑सो भविष्यथ ॥

पदपाठः

एक॑म् । च॒म॒सम् । च॒तुरः॑ । कृ॒णो॒त॒न॒ । तत् । वः॒ । दे॒वाः । अ॒ब्रु॒व॒न् । तत् । वः॒ । आ । अ॒ग॒म॒म् ।
सौध॑न्वनाः । यदि॑ । ए॒व । क॒रि॒ष्यथ॑ । सा॒कम् । दे॒वैः । य॒ज्ञिया॑सः । भ॒वि॒ष्य॒थ॒ ॥

सायणभाष्यम्

एवंपृष्टोऽग्निः तान्प्रत्युवाच—हेसौधन्वनाः सुधन्वनःपुत्राः यूयंएकंचमसं त्वष्ट्रासंपादितंपूर्वमेक- मेवसंतंचमसं चतुरःकृणोतन चतुःसंख्याकान्कुरुत चतुरःशसीत्यन्तोदात्तत्वं पूर्ववत्तनप् यथाउपरित- ने ज्येष्ठआहचमसाद्वाकरेतीत्युपक्रम्य कनिष्ठआहचतुरस्करेतीति चतुष्ट्वंनिर्धारितं नकेवलमहमेव- ब्रवीमि किंतुवोयुष्मान्प्रति तदुक्तंचतुर्धाकरणरूपंकर्मउत्तरत्रवक्ष्यमाणं अश्वरथादिकरणरूपंचकर्म देवाइन्द्रादयः अब्रुवन् देवत्वप्राप्त्युपायत्वेनतत्तादृशंकर्म वोयुष्माकंवक्तुमहमागमं प्राप्तोऽस्मि यस्मा- देवंतस्माद्यूयंद्येवाकरिष्यथ यद्येवंमदुक्तप्रकारेणकर्तुंश्क्रुथ तथाचेद्देवैः साकंसह यज्ञियासोभविष्य- थइतितैरुक्तमित्यर्थः ॥ २ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः