मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६१, ऋक् ७

संहिता

निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॒र्या जर॑न्ता युव॒शा ताकृ॑णोतन ।
सौध॑न्वना॒ अश्वा॒दश्व॑मतक्षत यु॒क्त्वा रथ॒मुप॑ दे॒वाँ अ॑यातन ॥

पदपाठः

निः । चर्म॑णः । गाम् । अ॒रि॒णी॒त॒ । धी॒तिऽभिः॑ । या । जर॑न्ता । यु॒व॒शा । ता । अ॒कृ॒णो॒त॒न॒ ।
सौध॑न्वनाः । अश्वा॑त् । अश्व॑म् । अ॒त॒क्ष॒त॒ । यु॒क्त्वा । रथ॑म् । उप॑ । दे॒वान् । अ॒या॒त॒न॒ ॥

सायणभाष्यम्

हेसौधन्वनाः यूयं निश्चर्मणा मृतायागोः सकाशादुत्कृत्ताच्चर्मणः गांनूतनां निररिणीत निरगमयत उत्पादितवन्तः तेनैवचर्मणासंवीतांतत्सदृशीमन्यांधेनुंकृतवन्तइत्यर्थः यद्यपिपूर्वमेवाश्वादीनां विनि- योगउक्तः तथापितेषामत्यन्तदुःखसंपादत्वज्ञापनाय पुनराह—नकेवलं गोकरणमेव अपिच या जरं- ता यौजीर्णौ पितरौ ता तौ युवशा युवानौ कृणोतन अकुरुत किंच अश्वादश्वं एकेनविद्यमानेनाश्वेना- श्वान्तरमतक्षत प्रयत्नेनसंपादितवन्तः यस्मादेवं कृतवंतस्तस्माद्रथं युष्मदीयंयुक्त्वाश्वैर्योजयित्वादे- वानिन्द्रादीनुपायातन देवसमीपंप्राप्नुत ॥ ७ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः