मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६१, ऋक् ८

संहिता

इ॒दमु॑द॒कं पि॑ब॒तेत्य॑ब्रवीतने॒दं वा॑ घा पिबता मुञ्ज॒नेज॑नम् ।
सौध॑न्वना॒ यदि॒ तन्नेव॒ हर्य॑थ तृ॒तीये॑ घा॒ सव॑ने मादयाध्वै ॥

पदपाठः

इ॒दम् । उ॒द॒कम् । पि॒ब॒त॒ । इति॑ । अ॒ब्र॒वी॒त॒न॒ । इ॒दम् । वा॒ । घ॒ । पि॒ब॒त॒ । मु॒ञ्ज॒ऽनेज॑नम् ।
सौध॑न्वनाः । यदि॑ । तत् । नऽइ॑व । हर्य॑थ । तृ॒तीये॑ । घ॒ । सव॑ने । मा॒द॒या॒ध्वै॒ ॥

सायणभाष्यम्

इदानीमृषिर्देवैरुक्तमर्थंतान्संबोध्य यूयंऋभूनेवमुक्तवन्तःस्थेत्यनुवाचयति हेसौधन्वनाः सुधन्वनः पुत्राः यूयं इदमुदकं सोद्मलक्षणं पिबत इत्यब्रवीतन इत्युक्तवन्तः ब्रवीतेर्लङिमध्यमबहुवचनस्यतस्य- तनबादेशे पित्त्वाद्ब्रुवईट् एतत्प्रातः सवनिकाभिप्रायं वा अथवा घेत्यनर्थकः प्रसिद्भ्यर्थोवा इदंमुंज- नेजनं मुंजवान्नामपर्वतः सोमोत्पत्तिस्थानं ततआहृतत्वात्तेनमुंजतृणेनशोधितं अपगततृणमित्यर्थः इदंसोमरसरूपमुदकं पिबतेत्यब्रवीतन एतन्माध्यंदिनसवनाभिप्रायं हेऋभवः यूयंतत् उभयसवनसं- बन्धि सोमपानकार्यं नेवहर्यथ नैवकामयथ हर्यतिःकान्तिकर्मा हर्यतिउशिगितितत्कर्मसुपाठात् तृती- यसवनेतु मादयाध्वै अत्यर्थं तृप्ताभवथ ऋभवोदेवाःसोमस्य मत्सन्नितितृतीयसवने तेषांसोमपानस- द्भावात् एवंयूयमृभूनुक्तवन्तः अथवा ऋभून्प्रति तस्यैवेदं वाक्यं हेसौधन्वनाः यूयंदेवत्वंप्राप्य देवय- जनंप्रतिसोमपानायरथेनागत्य श्रांतानश्वान् प्रातः सवनेइदमुदकं सोमलक्षणं पिबतेत्यब्रवीतन तत्र- दिनेच्छथ इदंवा मुंजनेजनं मुंजेनदूषितं वाजिनं पिबतेत्यब्रवीतन पश्चात्तद्वयंयदिनेवहर्यथ हेअश्वाः यूयं तृतीयसवने मादयाध्वै तत्रापिवाजिनप्रचारात् ॥ ८ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः