मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६१, ऋक् १०

संहिता

श्रो॒णामेक॑ उद॒कं गामवा॑जति मां॒समेकः॑ पिंशति सू॒नयाभृ॑तम् ।
आ नि॒म्रुच॒ः शकृ॒देको॒ अपा॑भर॒त्किं स्वि॑त्पु॒त्रेभ्य॑ः पि॒तरा॒ उपा॑वतुः ॥

पदपाठः

श्रो॒णाम् । एकः॑ । उ॒द॒कम् । गाम् । अव॑ । अ॒ज॒ति॒ । मां॒सम् । एकः॑ । पिं॒श॒ति॒ । सू॒नया॑ । आऽभृ॑तम् ।
आ । नि॒ऽम्रुचः॑ । शकृ॑त् । एकः॑ । अप॑ । अ॒भ॒र॒त् । किम् । स्वि॒त् । पु॒त्रेभ्यः॑ । पि॒तरौ॑ । उप॑ । आ॒व॒तुः॒ ॥

सायणभाष्यम्

अत्रऋभवएवऋत्विग्रूपेणस्थित्वासर्वत्रयज्ञंनिर्वहंतीत्याह श्रोणांशोणं वाछन्दसीतिपररूपाभावः शोणवर्णमुदकंरुधिरं एकः ऋभुषुमध्येऋत्विग्गामवाजति वाह्यभूमिंप्रतिगमयति रक्षोभागत्वेनस्था- पयति तथा एकोमांसं सूनया छेदनसाधनेन स्वधितिनाआभृतं संपादितंपिंशति हृदयजिह्वावक्षआ- द्याकारेणआहृतंसंपादितंमांसंपिंशति अवयवीकरोति स्वधितिनातत्तदवयवान्विभजतीत्यर्थः अथै- कोनिम्रुचः निःशेषेणछिन्नान्मांसात् शकृत् कुक्षिस्थंजरत्तृणं ऊवध्यनामकं अपाभरत् अपाहरत् निर- सनाय एवं ऋत्विग्रूपेणस्थितेभ्यःपुत्रेभ्यः पुरुत्रातृभ्यः पुत्रस्थानीयेभ्यः ऋभुभ्यः सर्वेष्वनुष्ठितेषु पि- तरायज्ञस्यपालयितारौजायापती किंस्विदुपावतुः किंनु खलुप्राप्नुतः अवतेःप्राप्त्यर्थाच्छान्दसोलिट् सं- र्वतैरेवानुष्ठितमिति तयोर्नकिंचित्कृत्यमस्तीत्यर्थः अथवायमर्थः एकस्तेषामन्यतमः श्रोणां पंगुक्रांगां उदकं प्रत्यवगमयति अपरः सूनयामां सविक्रयिण्याभृतंसंपादितंमांसंपिंशति पित्रोरर्थे अपरआनिम्नु-चः अस्तमयादर्वागेव शकृद्गोपुरीषंहरति एवमृभुभिरनुष्ठितेसति किंस्वित् एतस्मात्परिचरणादन्यत् पुत्रेभ्यः पितरौउपावतुः उपगच्छेतामिति ॥ १० ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः