मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६१, ऋक् ११

संहिता

उ॒द्वत्स्व॑स्मा अकृणोतना॒ तृणं॑ नि॒वत्स्व॒पः स्व॑प॒स्यया॑ नरः ।
अगो॑ह्यस्य॒ यदस॑स्तना गृ॒हे तद॒द्येदमृ॑भवो॒ नानु॑ गच्छथ ॥

पदपाठः

उ॒द्वत्ऽसु॑ । अ॒स्मै॒ । अ॒कृ॒णो॒त॒न॒ । तृण॑म् । नि॒वत्ऽसु॑ । अ॒पः । सु॒ऽअ॒प॒स्यया॑ । न॒रः॒ ।
अगो॑ह्यस्य । यत् । अस॑स्तन । गृ॒हे । तत् । अ॒द्य । इ॒दम् । ऋ॒भ॒वः॒ । न । अनु॑ । ग॒च्छ॒थ॒ ॥

सायणभाष्यम्

पुराणप्रसिद्धान्सुधन्वनः पुत्रान्कर्मणादेवत्वंप्राप्तवतोऋभून्स्तुत्वावेदप्रसिद्ध्या सूर्यरश्मिरूपानृ- भूनिदानींस्तौति तथाचयास्कोनिरुक्तेपुराणप्रक्रियासिद्धानृभून्बहुधानिरुच्यतदुदाहरणत्वेनविष्ट्वी- शमीत्येतामुदाहृत्यादित्यरश्मयोऽप्यृभवउच्यन्तइत्युक्त्वातस्मिन्नर्थेएतामृचमुदाजहार—हेऋभवः उरुप्रभूतं भासमानाः ऋतेनादित्येनभासमानावाऋतेनोदकेनउदकार्थमुत्पन्नावारश्मीनामुरुभासमा- नत्वंप्रसिद्धम् तथाआदित्यादुत्पत्तिरपिउदकार्थंभवनमपिरश्मीनांघर्मकालेभूमिगतंसारमादायपुनर्व- र्षकालेप्रवर्षंतीतिप्रसिद्धम् आदित्याच्चायतेवृष्टिरितिशास्त्रात् तथाविधानरः प्रकाशवृष्ट्युदकादेर्नेता- रोयूयं उद्वत्सुउन्नतेषुप्रदेशेषुमेर्वादिषु तृणंव्रीहियवादिरूपं अस्मैप्राणिजातायउपद्कारार्थंअकृणोतन कृतवन्तःस्थ उपसर्गाच्छन्दसिधात्वर्थेइतिवतिः तथा निवत्सुप्रवणदेशेषु अस्माएवअपउदकान्यकृणो- तन अकुर्वत किंस्वभोगार्थं नेत्याह स्वपस्ययाशो भनकर्मेच्छया शोभनंकर्मैभिः कृतमितियजमानाः स्तुवन्तितदिच्छयेत्यर्थः किंच यूयंअगोह्यस्याग्राह्यस्यादित्यस्यगृहेमण्डलेयत् यावत्कालंअसस्तनसुप्त- वन्तःस्थ रात्रौनिर्व्यापारास्तिष्ठथ षसस्वप्ने अस्माल्लङिपूर्ववत्तस्यतनबादेशः अदादित्वाच्छपोलुक् तत्तावन्तंकालं अद्याहनिइदंइदानीं नानुगच्छथअनुसृत्यनगच्छथ यावन्तंकालंरात्रौ सूर्येनिगूढावर्तध्वे तावन्तमेवकालमहन्यपिनानुगच्छथेत्यर्थः यद्वा अगोपनीयस्यतस्यगृहेअन्तरिक्षेयत् यावन्तंकालंअस- स्तन वृष्टिमदत्त्वास्वापमकुरुत तत्तावंतंकालं अद्येदानींवर्षसमये इदंसस्याभिवर्धनवृष्टिप्रवाहरूपंक- र्मनानुगच्छथअनुसृत्यनप्राप्नुथ यावन्तंकालंविवर्षथ तावन्तमेवकालंप्रवर्षथेत्यर्थः ॥ ११ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः