मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६१, ऋक् १३

संहिता

सु॒षु॒प्वांस॑ ऋभव॒स्तद॑पृच्छ॒तागो॑ह्य॒ क इ॒दं नो॑ अबूबुधत् ।
श्वानं॑ ब॒स्तो बो॑धयि॒तार॑मब्रवीत्संवत्स॒र इ॒दम॒द्या व्य॑ख्यत ॥

पदपाठः

सु॒षु॒प्वांसः॑ । ऋ॒भ॒वः॒ । तत् । अ॒पृ॒च्छ॒त॒ । अगो॑ह्य । कः । इ॒दम् । नः॒ । अ॒बू॒बु॒ध॒त् ।
श्वान॑म् । ब॒स्तः । बो॒ध॒यि॒तार॑म् । अ॒ब्र॒वी॒त् । सं॒व॒त्स॒रे । इ॒दम् । अ॒द्य । वि । अ॒ख्य॒त॒ ॥

सायणभाष्यम्

हेऋभवः रश्म्यात्मकायूयं सुषुप्वांसः आदित्यमण्डले स्वपन्तोवर्षणाय स्वपेर्लिटः क्वसुः तत् तमादित्यं तद्वाक्यमपृच्छथ प्रश्नंकुरुथ किंतदितिचेदुच्यते हेगोह्य केनचिदगोपनीयादित्यस्वामिन् नोऽस्मदीयमिदंकर्मवर्षणरूपंकः अबूबुधत् बोधयति प्रेरयति साहाय्यंकरोति बुधेर्ण्यन्ताल्लुङिचङि- रूपं बस्तः सर्वस्यवासयिता आदित्यः वसेरौणादिकस्तप्रत्ययः बवयोरभेदात् बत्वं बोधयितारंप्रेर- यितारंश्वानमब्रवीत् अंतरिक्षेश्वसंतंवायुंप्रावादीत् असौयुष्मान्प्रेरयतीति अथवा वायुसाहाय्येनवर्ष- न्तोयूयंसंवत्सरेपूर्णेअद्येदानींइदंजगत् व्यख्यत विविधंप्रकाशितवन्तः पूर्वंसूर्याचन्द्रमसौयथानदृश्येते तथावर्षित्वेदानींवर्षकालेतीतेविश्वंजगद्भ्यक्तंकुरुथेत्यर्थः ख्यातेर्लुङ्यस्यतिवक्तिख्यातीत्यङ् ॥ १३ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः