मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६१, ऋक् १४

संहिता

दि॒वा या॑न्ति म॒रुतो॒ भूम्या॒ग्निर॒यं वातो॑ अ॒न्तरि॑क्षेण याति ।
अ॒द्भिर्या॑ति॒ वरु॑णः समु॒द्रैर्यु॒ष्माँ इ॒च्छन्त॑ः शवसो नपातः ॥

पदपाठः

दि॒वा । या॒न्ति॒ । म॒रुतः॑ । भूम्या॑ । अ॒ग्निः । अ॒यम् । वातः॑ । अ॒न्तरि॑क्षेण । या॒ति॒ ।
अ॒त्ऽभिः । या॒ति॒ । वरु॑णः । स॒मु॒द्रैः । यु॒ष्मान् । इ॒च्छन्तः॑ । श॒व॒सः॒ । न॒पा॒तः॒ ॥

सायणभाष्यम्

हेशवसोवृष्टिकार्यस्यबलस्य नपातोनपातयितारः ऋभवः युष्मान् इच्छन्तः वृष्ट्यनुकूलचिकीर्ष- या युष्मानेवेच्छन्तः सर्वेदेवाः आयांति कस्मादितितदुच्यते मरुतः वृष्ट्यनुकूलादेवाः दिवा द्युलोका- दन्तरिक्षात् यान्तिआगच्छन्ति सावेकाचइतितृतीया विभक्तेरुदात्तत्वं भूम्याः भूमेः सकाशादग्निर्याति आगच्छति अयंवातः सर्वदासंचारीवायुः अन्तरिक्षेणयातिअन्तरिक्षादायाति तथावरुणः आवरकोज- लाभिमानीदेवः समुद्रैः समुन्दनस्वभावैरद्भिः ताभ्यआयाति यद्वा पूर्वं वृष्टिसाहाय्यायागताःएतेदेवाः कृतकार्याःसंतः पुनर्युष्मान्कामयमानाः स्वस्वदेशंप्रतियान्तीत्यर्थः ॥ १४ ॥

मानोमित्रइतिद्वाविंशत्यृचंपंचमंसूक्तं दैर्घतमसं तृतीयाषष्ठ्यौजगत्यौ शिष्टास्त्रिष्टुभः अश्वस्यस्तू- यमानत्वाद्यातेनोच्यतेसादेवतेतिन्यायेनाश्वोदेवता अत्रानुक्रमणिका—मानिद्भ्यधिकाश्वस्तुतिस्तु तृ- तीयाषष्ठ्यौजगत्याविति । अश्वमेधस्यमध्यमेहन्यध्रिगुप्रैषे अध्रिगोशमीध्वमितिशिष्ट्वाषड्विंशति- रस्यवंक्रयइतिअस्मात्पुरस्ताद्वैतत्सूक्तमावपेत् त्रीणिसुत्यानिभवन्तीतिखण्डेसूत्रितम्—अध्रिगोशमी- ध्वमितिशिष्ट्वाषड्विंशतिरस्यवंक्रयइतिवामानोमित्रइत्यावपेतेति ।

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः